पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३४
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

२०९७ । यावादिभ्यः कन् । (५-४-२९)

याव एव यावकः । मणिकः ।

२०९८ । लोहितान्मणौ । (५-४-३०)

लोहित एव लोहितकः मणिः ।

२०९९ । वर्णे चानित्ये । (५-४-३१)

लोहितकः कोपेन । 'लोहिताल्लिङ्गबाधनं वा' (वा ३३२२) । लोहेितिका-लोहिनिका कोपेन ।


शैलमेषार्काः” इत्यमरः । यावादिभ्यः कन् । यावक इति >। यवानामयं यावः । ओदनादः, स एव यावकः । अलक्तकवृक्षो वा यावः, स एव यावकः “यावोऽलक्तो द्रुमालयः” इत्यमरः । लोहितान्मणौ ॥ मणौ वर्तमानात् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः । माणिक्यमयो मणिरेवेह मणिर्विवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान् स्फटिकमणिस्तस्य तु ‘रक्ते’ इत्युत्तरसूत्रेण सिद्धम् । वर्णे चानित्ये ।। अनित्ये वर्णे विद्यमानात् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः । अमण्यर्थमिदम् । लोहितवकः कोपेनेति ।। देवदत्तादिरिति शेषः । कोपनिमित्तक देवदत्तादेर्लौहित्यमनित्यमेव । कोपाभावे तदभावात् । यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव । माणिक्ये नष्टे तन्नाशात् । तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तते, स वर्णः नित्य इत्यभिमतमिति न दोषः । स्यादेतत् । लोहिनिका लोहितिका वा कोपेनेति स्त्रियां रूपद्वयमिष्यते । तत्र लोहितशब्दात् ‘वर्णादनुदात्तात्’ इति नत्वसन्नियोगशिष्टं ङीपं परत्वात् स्वार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसन्नियोगशिष्टङीपो न प्रसक्तिः । कोपधत्वेन तोपधत्वाभावात् । ततश्च लोहितकशब्दात् ‘अजाद्यत:’ इति टापि 'प्रत्ययस्थात्' इति इत्त्वे लोहितिकेत्येव स्यात्, नतु तत्र लोहिनिकेति । लोहिताल्लिङ्गबाधनं वेति ।। वार्तिकमिदम् । लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना ङीपो बाधे लोहिनीशब्दात् कनि 'केऽणः’ इति ह्रस्वे कन्नन्ताट्टापि लोहिनिकेति सिद्ध्यति । सति तु कना ङीपो बाधे लोहिताशब्दात् कनि ‘केऽणः’ इति हस्वे टापि लोहितिकेति भवति । ननु ‘ङ्याप् प्रातिपदिकात्’ इत्यत्र लिङ्गविशिष्ट परिभाषयैव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तादेव तद्धिताः भवन्ति, नतु ङ्यावाब्भ्यां प्रागित्येवमर्थमित्युक्तम् । एवञ्च ङीपः प्राक् कनः प्रसक्तेरेवाभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषुङ्याब्ग्रहणं न सम्बद्ध्यते । न च सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् ‘कुत्सिते' इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणाङ्क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचनमिदं व्यर्थमिति वाच्यम् । अत एव स्वार्थिकतद्धितानां प्रातिपदिकादेव