पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकरणम] बालमनोरमा । ७४९ रोपधादीकारान्ताच्च प्राग्देशवचिनश्च वृद्धाद्वुञ्स्यात् । पाटलिपुत्रकः । ईत: काकन्दकः । १३४८ । जनपदतवध्योश्च । (४-२-१२४) जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्व्ञ्स्यात् । आदर्शकः । त्रैगर्तकः। १३४९ । अवृद्धादपि बहुवचनविषयात् । (४-२-१२५) अवृद्धाद्वृद्धाच्च जनपदतवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ्- स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः। अवृद्धाजनपदात् , आङ्गकः । अवृ- द्धाज्जनपदावधेः, आजमीढकः । वृद्धाजनपदात् , दार्वकः । वृद्धाज्जनपदावधे:, कालञ्जरकः । ‘विषयग्रहणं' किम् । एकशेषेण बहुत्वे मा भूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः । तासु भवो वार्तनः । १३५० । कच्छाग्निवक्त्रवर्तोत्तरपदात् । (४-२-१२६) देशवाचिनो वृद्धादवृद्धाच्च वुञ्स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः । १३५१ । धूमादिभ्यश्च । (४-२-१२७) देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः । १३५२ । नगरात्कुत्सनप्रावीण्ययोः। (४-२-१२८) रोपधादित्यादिना ॥ ईत इति ॥ उदाहियते इति शेष । काकन्दक इति ॥ काकन्दी- नाम देश , तत्र भव इत्यर्थः । जनपदतदवद्ध्योश्च ॥ आदर्शक इति ॥ आदर्शो नाम जनपदः। तत्र भव इत्यर्थः। त्रिगर्तो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तपदाच्छ बाधितुमिह तदवधिग्रहणम् । तदाह । त्रैगर्तक इति ॥ अवृद्धादपि बहुवचनविषयात् ॥ अवृद्धाजनपदादिति ॥ उदाह्रियते इति शेषः । आजमीढक इति ।। अजमीढेषु भव इत्यर्थः। अजमीढ़ाख्यः जनपदः कस्य- चिज्जनपदस्य वधिः । वृद्धाजनपदादिति ॥ उदाहियत इति शेषः । दार्वक इति ॥ बहुवचनान्तो जनपदविशेषे वर्तते । तत्र भव इत्यर्थः। कालञ्जरक इति ॥ कलञ्जरेषु भव इत्यर्थः । कच्छाग्नि । कच्छ, अग्नि, वक्र, वर्त, एतदुत्तरपदादित्यर्थः । शेषपूरणेन सूत्रं व्याचष्टे। देशवाचिन इति ॥ छाणारपवादः। दारुकच्छक इति ॥ दारुकच्छे भव इत्यर्थः । काण्डाग्निक इति ॥ काण्डाग्नौ भव इत्यर्थः। अकादेशे 'यस्येति च' इति इकार- लोपः । सैन्धुवक्र इति ॥ सिन्धुवक्रे भव इत्यर्थः । बाहुवर्तक इति ॥ बहुवर्ते भव इत्यर्थः । धूमादिभ्यश्च ॥ देशवाचिनो वुञिति शेषपूरणम् । नगरात्कुत्सन ॥ नागरा: