पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४८
[शैषिक
सिद्धान्तकौमुदीसहिता

१३४३ । ओर्देशे ठञ् । (४-२-११९)

उवर्णान्ताद्देशवाचिनष्ठञ् । निषाद्कर्षूः । नैषादकर्षुकः । “केऽणः" (सू ८३४) इति ह्रस्वः । “देशे' किम् । पटोश्छात्राः । पाटवाः । ञिठं व्यावर्तयितुं ठञ्ग्रहणम् । वृद्धाच्छं परत्वाद्यं बाधते । दाक्षिकर्षकः ।

१३४४ । वृद्धात्प्राचाम् । (४-२-१२०)

प्राग्देशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः। शाक जम्बुकः । नेह । मल्लवास्तु माल्लवास्तवः ।

१३४५ । धन्वयोपधाद्वुञ् । (४-२-१२१)

धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व, ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ 'वुञ्छण्–’ (सू १२९२) आदि सूत्रेण ण्यान्तौ । साङ्काश्यकः । काम्पिल्यकः ।

१३४६ । प्रस्थपुरवहान्ताच्च । (४-२-१२२)

एतदन्ताद्वृद्धाद्देशवाचिनो वुञ्स्यात् । छस्यापवाद् । मालाप्रस्थकः । नान्दीपुरंकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राग्देशेतूत्तरेण सिद्धम् ।

१३४७ । रोपधेतोः प्राचाम् । (४-२-१२३)


उशीनरदेशे कश्चिद्रामः । सौदर्शनीया इति । ठञ्ञिठयोरभावे वृद्धाच्छः । ओर्देशे ठञ् ॥ निषादकर्षूरिति । कश्चिद्ग्राम इति शेषः । नैषादकर्षक इति । उगन्तात्परत्वात् कादेशः । वृद्धात्प्राचाम् ।। “ओर्देशे ठञ्’ इत्यनुवर्तते । प्राचामिति देशविशेषणम् । नतु विकल्पार्थं व्याख्यानात् । पूर्वेण सिद्धे नियमार्थमिदम् । तदाह । प्राग्देशेत्यादिना ।। आढकजम्बुक इति । आढकजम्बुर्नाम कश्चिद्ग्राम । तत्र भव इत्यर्थः । उगन्तात्परत्वात् ठस्य कः । ‘केऽणः' इति ह्रस्वः । एवं शाकजम्बुकः । मलुवास्त्विति । कश्चित् प्राच्यो ग्राम इति शेषः । धन्वयोपधाद्वुञ् ।। ऐरावतं धन्वेति । । ऐरावताख्यन्धन्वेत्यर्थः । धन्व मरुप्रदेशः । “समानौ मरुधन्वानौ' इत्यमरः । आष्टकन्नाम धन्व इति भाष्यान्नपुंसकत्वमपि । ऐरावतक इति ।। ऐरावताख्ये मरुप्रदेशे भव इत्यर्थः । वुञ्, अकादेशः । साङ्काश्यकः । काम्पिल्यक इति । साङ्काश्ये काम्पिल्ये च भव इयर्थः । प्रस्थपुरवहान्ताञ्च । एत दन्तादिति ॥ प्रस्थ, पुर, वह, एतदन्तादित्यर्थः । ननु पुरान्तग्रहणं व्यर्थम् । नान्दीपुरक इत्यत्र 'रोपधेतोः प्राचाम्' इत्युत्तरसूत्रेण सिद्धत्वादित्यत आह । पुरान्तेति । रोपधेतोः प्राचाम् ॥ रोपधश्च, ईच, तयोरिति द्वन्द्वः । षष्ठी पञ्चम्यर्थे। प्राचामिति देशविशेषणम् । तदाह ।