पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७४७
बालमनोरमा ।

१३३९ । भवतष्ठक्छसौ । (४-२-११५)

वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । “वृद्धात् इत्यनुवृत्तेः शत्रन्तादणेव | भावतः |

१३४० । काश्यादिभ्यष्ठञ्ञिठौ । (४-२-११६)

इकार उच्चारणार्थ:। काशिकी-काशिका। वैदिकी-वैदिका। “आपदादि पूर्वपदात् कालान्तात्' (ग सू ७४) । आपदादिराकृतिगणः । आपत्कालिकी आपत्कालिका

१३४१ । बाहीकग्रामेभ्यश्च । (४-२-११७)

बाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम बाहीकग्रामः । कास्तीरिकी-कास्तीरिका ।

१३४२ । विभाषोशीनरेषु । (४-२-११८)

एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्टञ्ञिठौ वा स्तः । सौदर्शनिकी-सौ - दर्शनिका-सौदर्शनीया ।


घटीयमित्यादि सिद्धम् । भवतष्ठवक्छसौ । भावत्क इति । 'इसुक्तान्तात्कः' । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथञ्जश्त्वमित्यत आह । जश्त्वमिति ॥ सिति च' इति पदत्वेन भत्वस्य बाधादिति भावः । ननु भावत्त इति कथमण्प्रत्ययः । * त्यदा दीनि च' इति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह । वृद्धादित्यनुवृत्ते श्शत्रन्तादणेवेति ॥ त्यदादिषु “भातेर्डवतुः' इति डवत्वन्तस्यैव पाठादिति भावः । काश्यादिभ्यष्ठञ्ञिठौ ॥ ठञ् ञिठ इति प्रत्ययौ स्तः । ञिठप्रत्यय ञि इति समुदायस्य ' आदिर्ञिटुडवः' इति इत्संज्ञायाम्प्रयोगाभावात् ञकार एव इत् तस्य ञित्स्वरः प्रयोजनम् । ठञ एव विधौ तु डीप् स्यात्, टाप् न स्यात् । नन्वेवं सांत इठप्रत्यये ठस्य इकादेशेो न स्यात् । अङ्गात्परत्वाभावादित्यत आह । इकार उच्चारणार्थ इति । काशिकीति । काश्याञ्जाता दिरित्यर्थः । ठन्नन्तात् ङीप् । काशिकेति । ञिठप्रत्यये इकादेशे टाप् । वैदिकी-वैदिकेति ॥ चेदिर्देशविशेषः । आपदादिपूर्वपदात्कालान्तादिति । गणसूत्रम् । ठञ्ञिठा वित्येव । आपदादिरिति । आपत् आदिर्यस्येति विग्रहः । आपत्कालिकी-आप त्कालिकेति । ठञि डीप्, ञिठे टाप् । वाहीकग्रामेभ्यश्च ॥ बाहीकाख्याः केचिद्रामाः तद्विशेषवाचिभ्य इत्यर्थः । तदाह । बाहीकग्रामवाचिभ्य इति । विभाषोशीनरेषु ॥ पूर्वसूत्रे समस्तनिर्देशेऽपि ग्रामेभ्य इत्यनुवर्तते । एकदेशे रवरितत्वप्रतिज्ञानात् । तदाह । एषु ये ग्रामा इति । उशीनरेषु ये प्रामास्तद्विशेषवाचिभ्यः इत्यर्थः । सौदर्शनो नाम