पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४६
[शैषिक
सिद्धान्तकौमुदीसहिता

१३३४ । न व्द्यचः प्राच्यभरतेषु । (४-२-११३)

इञश्च' (सू १३३३) इत्यणोऽपवादः । प्रौष्ठीया: । काशीया । भरतानां प्राच्यत्वेऽपि पृथगुपादानम् अन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य

१३३५ ।। वृद्धिर्यस्याचामादिस्तदृद्धम् । (१-१-७३)

यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तवृद्धसंज्ञ स्यात् ।

१३३६ । त्यदादीनि च । (१-१-७४)

वृद्धसंज्ञानि स्युः ।

१३३७ । वृद्धाच्छः । (४-२-११४)

३शालाय । मालीयः । तदीयः ।

१३३८ । एड् प्राचां देशे । (१-१-७५)

एड् यस्याचामादिस्तदृद्धसंज्ञ वा स्याद्देशाभिधाने । एणोपचनीयः । गोनर्दीयः । भोजकटीयः । पक्षेऽणि । ऐणीपचनः । गौनर्द: । भौजकटः । एङ्’ किम् । आहिच्छत्त्रः । कान्यकुब्जः । “वा नामधेयस्य वृद्धसंज्ञा वक्तव्या' (वा ५७६) । दैवदत्तः-देवदत्तीयः ।


लौकिकमेव गोत्रमिति सिद्धान्तः। तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रङ्गुह्यते । 'यूनि लुक् इति सूत्रभाष्ये तथोक्तत्वादिति भावः । पाणिनीयमिति ॥ पणिनो गोत्रापल्य पाणिनः । तस्यापत्यं युवा पाणिनिः । तस्यदम्पाणिनीयम् । वृद्धात् छः । पूर्वसूत्रद्वयेन अण् तु न । पाणि निशब्दस्य युवप्रत्ययान्ततया उक्तत्वादिति भावः । न द्व्यचः । प्राच्येषु परेषु भरतेषु च गोत्रेषु विद्यमानादिञन्तात् व्द्यचः अण् न भवतीत्यर्थः । इञश्चेत्यणोऽपवाद इति । प्रतिषेध इत्यर्थ | प्रौष्ठीया इति । प्रोष्ठस्य गोत्रापत्यम्प्रौष्टिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यङ्काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धात् छः । लिङ्गमिति । तेन ओद्दालकिः पिता, औद्दालकायनः पुत्रः इत्यत्र ‘इञः प्राचाम्'इति भरतेभ्यो लुङ् न भवति । वृद्धिर्यस्य ॥ अचामिति बहुत्वमनेकत्वोपलक्षणम् । तेन शालाशब्दस्यापि वृद्धत्वं सिद्यति। व्यपदेशिवत्वेन ज्ञाशब्दस्यापि वृद्धत्वम्। त्यदादीनि च ॥ शेषपूरणेन सूत्रं व्याचष्टे । वृद्धसंज्ञानि स्युरिति । आदेरवो वृद्धिसंज्ञकत्वाभावादारम्भः । वृद्धाच्छः ।। वृद्धसंज्ञकात् छः स्यात् जातादिष्वर्थेषु। अणेोऽपवादः । शालीय इति । शालायाञ्जात इत्यादी त्यर्थः। एवन्तदीयाः । एड् प्राचां देशे ॥ देशविशेषनान्नश्चदेडादिरेव वृद्धसंज्ञक इति नियमार्थ मिदम् । वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वम् । न त्वाधुनिकसङ्केतित्वमेव । तेन