पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७४५
बालमनोरमा ।

अणोऽपवादः । पौर्वशालः । “ असंज्ञायाम् ' किम् । संज्ञाभूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः । 'प्राचां ग्रामनगराणाम्। (सू १४००) इत्युत्तरपदवृद्धिः ।

१३२९ । मद्रेभ्योऽञ् । (४-२-१०८)

दिक्पूर्वपदात्' इत्येव । 'दिशोऽमद्राणाम्’ (सू १३९९) इति मद्र पर्युदासादादिवृद्धिः । पौर्वमद्रः । आपरमद्रः ।

१३३० । उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् । (४-२-१०९)

अञ् स्यात् । शैवपुरम् ।

१३३१ । प्रस्थोत्तरपद्पलद्यादिकोपधाद्ण् । (४-२-११०)

माहिकिप्रस्थः । पालदः । नैलीनकः ।

१३३२ । कण्वादिभ्यो गोत्रे । (४-२-१११)

एभ्यो गोत्रप्रत्ययान्तेभ्योऽण्स्यात् । कण्वो गर्गादिः । काण्वस्य छात्राः काण्वा: ।

१३३३ । इञश्च । (४-२-११२)

गोत्रे य इञ् तदन्तादण्स्यात् । दाक्षा: । “गोत्रे' किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं, न तु लौकिकम् । तेनेह न' पाणिनीयम् ।


दिक्पूर्वपदकात् ञ स्यादित्यर्थः । पौर्वशाल इति । पूर्वस्यां शालायाम्भव इत्यर्थे 'तद्धि तार्थ' इति समासात् । मद्रेभ्योऽञ् । इत्येवेति । दिक्पूर्वीत् मद्रशब्दादञित्यर्थः । पर्युदासादिति । उत्तरपदवृद्धेः पर्युदासे सति आदिवृद्धिरित्यर्थः । बहुवचनाज्जनपदवाचिन एव ग्रहणम् । पौर्वमद्र इति ॥ पूर्वेषु मद्रेषु भव इत्यर्थः । उदीच्यग्रामाञ्च । शैवपुर मिति । उत्तरदेशे शिवपुरन्नाम ग्रामविशेषः । तत्र भवमित्यर्थः । समासस्येत्यन्तोदात्तः शिवः पुरशब्दः । बह्वचः किम् । ध्वजी नाम उत्तरदेश ग्रामविशेषः । तत्र भवः ध्वाजः । अन्तोदात्ता त्किम् । शार्कराधानम् । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यैवावस्थानात् मध्योदात्तोऽयम् । प्रस्थोत्तरपद । प्रस्थोत्तरपदात् पलद्यादिभ्यः कोपधाच आणित्यर्थः । पलदिः आदिर्येषा मिति विग्रहः । उदीच्यग्रामलक्षणस्य अञोऽपवादः । माहिकिप्रस्थ इति ॥ महिकिप्रस्थनान्नि ग्रामे भव इत्यर्थः । पालद इति । पलदीनान्मि ग्रामे भव इत्यर्थः । नैलीनक इति ॥ निलीनकनान्मि ग्रामे भव इत्यर्थः । कण्वादिभ्यो गोत्रे । काण्व्यस्येति । कण्वस्य गोत्रा पत्यङ्काण्व्यः । गर्गादियञ् । काण्व्यस्य छात्रा इत्यर्थे अनेन छापवादः अण् । 'यस्येति च' इत्य कारलोपः । “ आपल्यस्य च' इति यकारलापः । काण्वा इति रूपम् । इञश्च । दाक्षा इति ॥ दक्षस्य गोत्रापत्यं दाक्षिः । अत इञ् । दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुत ङ्गमस्य निवासः सौतङ्गमिः । “सुतङ्गमादिभ्य इञ्' सौतङ्गमेरिदमित्यर्थे वृद्धात् छः, न त्वण् , इञो गोत्रार्थकत्वाभावात् । गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि ७४५ 94