पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४४
[शैषिक
सिद्धान्तकौमुदीसहिता

हृस्वादिणः परस्य सस्य ष: स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चण्डालादिः । “अरण्याण्णः’ (वा २७८२) । आरण्याः सुमनसः । दूरादेत्यः' (बा २७८३) । दूरेत्यः । “उत्तरादाहञ्' (वा २७४४) ।

१३२६ । ऐषमोह्यःश्वसोऽन्यतरस्याम् । (४-२-१०५)

एः यस्त्यब्वा । पक्षे वक्ष्यमाणौ टयुटयुलौ । ऐषमस्त्यम्-ऐषमस्तनम् । ह्यस्त्य-ह्यस्तनम् । श्वस्त्यम्-श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ।

१३२७ । तीररूपोत्तरपदादञ्ञ्यौ । (४-२-१०६)

यथासङ्खयेन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । 'तीर रूपान्तात्' इति नोक्तम् । बहुच्पूर्वान्मा भूत् । बहुरूपम् ।

१३२८ । दिक्पूर्वपदाद्संज्ञायां ञः । (४-२-१०७)


इति । त्यपि सस्य षत्वे तकारस्य ष्टत्वेन टः । अरण्याण इति । वक्तव्य इति शेषः । आरण्याः सुमनस इति । “स्त्रियः सुमनसः पुष्पम्' इत्यमरः । अरण्ये भवा इत्यर्थे णप्रत्यये टापि आरण्या इतिरूपम् । अणि तु डीप् स्यादिति भावः । दूरादेत्य इति ॥ वक्तव्य इति शेषः । दूरेत्य इति । दूरादागतः, दूरे भव इति वार्थः । दूरादित्यव्ययात् एत्यप्रत्यये अव्ययानाम्भमात्रे इति टिलोप । उत्तरादाहञिति । वाच्य इति शेषः । ओौत्तराह इति ॥ उत्तरस्मादागतः उत्तरस्मिन् भव इति बार्थः । औत्तर इति त्वसाधु । ऐषमोह्यः । एभ्य इति ।॥ ऐषमस्, ह्यस्, श्वस्, एतेभ्य इत्यर्थः । वक्ष्यमाणाविति । 'सायञ्चिरम्प्रगे प्राह्णेऽव्ययेभ्यष्टयुट्युलौ तुट्च' इत्यनेनेति शेषः । ऐषमस्त्यमिति ॥ ऐषमस् इत्यव्ययः। वर्तमाने संवत्सरे वर्तते । तत्र भवमित्यर्थः । ‘परुत्परायैषमोऽब्दे पूर्वे पूर्वतरे यति' इत्यमरः । ऐषमस्तन मिति ॥ टयुट्युलौ वा । टावितौ, य्वोरनादेशः, तस्य तुट्, ट इत्, उकार उच्चारणार्थ टित्वादाद्यवयवः । ह्यस्त्यं-ह्यस्तनमिति ॥ ह्यस् इत्यव्ययं गतेऽह्णि । तत्र भवमित्यर्थः । श्वस्त्यम्-श्वस्तनमिति । श्वस् इत्यव्ययमनागतेऽहि । तत्र भवमित्यर्थः । “ह्यो गते नागतेऽहि श्वः' इत्यमरः । पक्षे इति। ‘श्वसस्तुट् च' इति ठञि तस्य इकादेशे तुडागमे द्वारादी नाञ्च' इत्यैजागमे शौवस्तिकमित्यपि वक्ष्यमाणं रूपमित्यर्थः । तीररूप ॥ तीरोत्तरपदात् रूपोत्तरपदाच क्रमादञ्ञ्यश्चेत्यर्थः । काकतीरमिति । काकतीरे भवमित्यर्थः । पाल्वलती रमिति । पल्वलतीरे भवामित्यर्थः । शैवरूप्यमिति । शिवरूपे भवमित्यर्थः । रूप्यो त्तरपदेति काचित्पाठः । तथा सति ञ्यप्रत्यये 'यस्येति च' इत्यकारलोपे द्वियकारं रूपम् । बहुरूपमिति । 'विभाषा सुपो बहुच् पुरस्तात्तु' इति बहुपूर्वस्य रूपान्तत्वेऽपि तदुत्तर पदकत्वाभावान्न ञ्य इति भावः । दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असंज्ञाभूतात्