पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७३९
बालमनोरमा ।

नड्वलः । 'शादो जम्बालघासयोः' इत्यमरः । शाद्वलः ।

१३०८ । शिखाया वलच् । (४-२-८९)

शिखावलम् ।

१३०९ । उत्करादिभ्यश्छः । 8-२९)

उत्करीयः ।

१३१० । नडादीनां कुक्च । (४-२-९१)

नडकीयम् । 'क्रु्ञ्चा ह्रस्वत्वं च' (ग सू ८०) । क्रुञ्चकीयः । 'तक्षन्नलोपश्च ' (ग सू ८१) । तक्षकीयः ।

१३११ । बिल्वकादिभ्यश्छस्य लुक् । (६-४-१५३)

नडाद्यन्तर्गता बिल्वकादयः, तेभ्यश्छस्य लुक्तद्धिते परे । बिल्वा यस्यां सन्ति सा बिल्वकीयाः । तस्यां भवा बैल्वकाः । वेत्रकीयाः-वैत्रकाः । 'छस्य' किम् । छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्मा भूत् । अन्यथा 'सन्नियोग-


इति ॥ डित्वाट्टिलोपः । शाद्वल इति । शादाः अस्मिन् सन्तीति विग्रहः । शादो दन्त्योपधः । डोपध इत्यन्ये । “नडप्राये नड्वान्नड्वल इत्यपि” इत्यमरः । “शाद्वलः शादहरिते” इति च । शिखाया वलच् ॥ निर्वृत्ताद्यर्थं सूत्रं देशे तन्नाम्नि अणो बाधनार्थञ्च । ‘दन्तशिखात्संज्ञायाम्' इति पञ्चमे वक्ष्यमाणन्तु अदेशेऽपि शिखावलः, इति रूपार्थम् । उत्कारादिभ्यश्छः ॥ चातुरर्थिक इति शेषः । उत्करीय इति । देशविशेषोऽयम् । उत्करेण निर्वृत्तमिति वा, तस्य निवासः, तस्य अदूरभव इति वा । नडादीनाङ्कुक्च ॥ नडादिभ्यः छः स्यात् चातुरर्थिकः प्रकृतेः कुक् च । क्रुञ्चा ह्रस्वत्वञ्चेति ॥ नडादिगणसूत्रं क्रुञ्चाशब्दाच्छः । प्रकृतेः कुक्, आकारस्य ह्रस्वश्च । क्रुञ्चकीय इति ॥ क्रुञ्चा आस्मिन् सन्तीत्यादि विग्रहः । तक्षन्नलोपश्च ॥ इदमाप गणसूत्रम् । त्क्षन्शब्दात् छः, कुक्, नकारस्य लोपश्च । बिल्वकादिभ्यश्छस्य लुक् ॥ षाष्ठमिदं सूत्रम् । बिल्वकेति ॥ नडाद्यन्तर्गतबिल्वादीनां कृतकुगागमानां निर्देशः । ककारादुकार उच्चारणार्थः । तद्धिते इति ॥ 'आपल्यस्य च तद्धिते' इत्यतस्तदनुवृत्तेरिति भावः । बिल्वकीयेति ॥ 'नडादीनाङ्कुक् च' इति छः । प्रकृतेः कुक् च । तस्यां भवाः बैल्वका इति ॥ बिल्वकीयाशब्दाद्भवार्थे अण् । तस्मिन्परे छस्य लुगिति भावः । वेत्रकीयाः इति ॥ वेत्राः अस्यां सन्तीत्यर्थे नडादित्वाच्छ, प्रकृतेः कुक् च, इति भावः । वैत्रका इति ॥ वेत्रकीयायां भवा इत्यर्थः । वेत्रकीयाशब्दात् अणि छस्य लुगिति भावः । छस्य किमिति ॥ एभ्यः परस्यैव सम्भव इति प्रश्नः । सन्नियोगति ॥ “सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति न्यायेनेत्यर्थः । ननु 'ढे लोपोऽकद्र्वाः' इत्यतो लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणङ्किमर्थमित्यत आह । लुग्ग्रहणं सर्वलोपार्थमिति । प्रत्ययादर्शनस्यैव लुक्शब्दार्थत्वात्