पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४०
[शैषिक
सिद्धान्तकौमुदीसहिता

शिष्टानाम्’ (प ८७) इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ।

इति तद्धिते चातुरर्थिकप्रकरणम् ।


अथ तद्धिते शैषिकप्रकरणम् ।

१३१२ । शेषे । (४-२-९२)

अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषः, तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्णः औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । 'शेषे' (सू १३१२) इति लक्षणं चाधिकारश्च । 'तस्य विकारः’ इत्यतः प्राक्छेषाधिकारः।


कृत्स्नस्य ईयस्य लोपो लभ्यते इति भावः । लोपविधौ तु नैवं लभ्यते इत्याह । लोपो हीति ॥ लोपविधौ 'सूर्यतिष्य' इत्यतः य उपधायाः इत्यनुवृत्तौ बिल्वकादिभ्यः परस्य छादेशभूतस्य ईयस्य उपधाभूतो यो यकारः तस्य लोप इत्यर्थलाभाद्यकारमात्रस्य लोपः स्यात् । य उपधायाः इत्यननुवृत्तौ तु 'आदेः परस्य' इति इकारस्यैव लोपः स्यादिति भावः ॥

इति तद्धिते चातुरर्थिकप्रकरणम् ।

अथ शैषिकप्रकरणं निरूप्यते-शेषे ॥ अणादय इति ॥ 'प्राग्दीव्यतोऽण्' इत्यादि साधारणाः प्रत्यया इत्यर्थः । चतुर्भिरिति । अश्वादिभिरिति शेषः। चतुर्दश्यामिति ॥ कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृश्यन्ते इत्यागमः । लक्षणमिति ॥ प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः । अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदन्न सिद्ध्येदिति भावः । आधिकारश्चेति ॥ उत्तरसूत्रेष्वनुवृत्त्यर्थश्चेत्यर्थः । स्वरितत्वादिति भावः । अधिकारस्योत्तरावधिमाह । तस्य विकार इत्यतः प्रागिति ॥ नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणाम् अपत्यादिचतुरर्थ्यन्तादन्यत्वस्य सिद्धत्वात् शेषाधिकारो व्यर्थ इति वाच्यम् । 'तस्येदम्' इत्यादावपत्यादिचतुरर्थ्यन्तार्थानाङ्ग्रहणाभावाय तदावश्यकत्वात् । न च प्रदर्शितेषु ग्रहणाद्यर्थेषु 'तस्येदम्’ इत्येव अणादिसिद्धेः शेष इत्यस्य विधित्वन्नाश्रयणीयमिति वाच्यम् । “शैषिकान्मतुबर्थीयात्” इत्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदन्त्वेन भासमानमपत्याद्यपि न शेषः । “इदं विशेषा ह्येते अपल्यं समूहो विकारो निवासः” इति