पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३८
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

१३०४ । नद्यां मतुप् । (४-२-८५)

चातुरर्थिकः । इक्षुमती ।

१३०५ । मध्वादिभ्यश्च । (४-२-८६)

मतुप्स्याच्चातुरर्थिकः । मधुमान् । अनद्यर्थ आरम्भः ।

१३०६ । कुमुदनडवेतसेभ्यो ङ्मतुप् । (४-२-८७)

कुमुद्वान् । नड्वान् । वेतस्वान् । आद्ययोः 'झयः' (सू १८९८) इति अन्त्ये 'मादुपधायाः-' (सू १८९७) इति वक्ष्यमाणेन वः । 'महिषाञ्चेति वक्तव्यम्' (वा २७६१) । महिष्माम्नाम देश: ।

१३०७ । नडशादाड्ड्वलच् । (४-२-८८)


ठकि रूपम् । शर्करीयमिति ॥ छे रूपम् । शर्करिकमिति ॥ ठचि रूपम् । शार्करकमिति ॥ ककि रूपम् । शर्कराणां निवासः इत्यर्थः । शर्कराभिः निवृत्तमिति वा । नद्यां मतुप् ॥ चातुरर्थिक इति ॥ शेषपूरणम् । इक्षुमतीति ॥ मतुपि उपावितौ । इक्षूणां निवास इत्यर्थः । मध्वादिभ्यश्च ॥ शेषपूरणेन सूत्रं व्याचष्टे । मतुप् स्याच्चातुरर्थिक इति । मधुमानिति ॥ मधूनां निवास इत्यर्थः । पूर्वेण सिद्धे किमर्थमिदमित्यत आह । अनद्यर्थमिति । कुमुदनड । कुमुद नड वेतस एतेभ्यः ङ्मतुप् स्यादित्यर्थः। ङकारः उपौ च इतः । अयं मत्वर्थ एवेति “न पदान्त' इति सूत्रभाष्यकैयटयोः स्थितम् । कुमुद्वानिति ॥ कुमुदा: अस्मिन् सन्तीति विग्रहः । ङ्मतुपि ङित्वात् टिलोपः । नड्वानिति । नडाः अस्मिन् सन्तीति विग्रहः । “कुमुद्वान्कुमुदप्राये नड्वान्नड्वल इत्यपि” इत्यमरः । वेतस्वानिति ॥ वेतसाः अस्य सन्तीति विग्रहः । आद्ययोरिति ॥ कुमुद्वच्छब्दे नडुच्छब्दे च 'झयः' इति मतुपो मस्य वकारः । वेतस्वच्छब्दे तु 'मादुपधायाः' इति मस्य वकार इत्यर्थः । वस्तुतस्तु नड्वच्छब्देऽपि 'झयः’ इत्यस्यासिद्धत्वात् 'मादुपधायाः' इत्येव न्याय्यम् । “प्रकरणे प्रकरणमसिद्धम्, नतु एकस्मिन्नेव प्रकरणे पूर्वयोगम्प्रति परस्यासिद्धत्वम्” इत्यस्य 'उपसर्गादसमासे' इति सूत्रभाष्ये दूषितत्वात् । वेतस्वानित्यत्र रुत्वन्तु न, अल्लोपस्य स्थानिवत्वात् 'न पदान्त' इति निषेधस्तु न । पदे अन्त इति विगृह्य पदे परतश्चरमावयवे कर्तव्ये परपदस्थाजादेशस्यैव तन्निषेधप्रवृत्तर्भाष्याभ्युपगतत्वात् । 'पूर्वत्रासिद्धे न स्थानिवत्' इति निषेधोऽपि न । पदे अन्त इति विगृह्य तत्र स्थानिवत्त्वनिषेधव्यावृत्तिसाधनपरभाष्यप्रामाण्येन पदचरमावयवकार्यविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणात्’ इति शब्देन्दुशेखरे विस्तरः । महिषाच्चेत्यनन्तरं तु ङ्मतुबिति शेषः । महिष्मानिति ॥ महिषाः अस्मिन् सन्तीति विग्रहः । ङित्त्वाट्टिलोपः । अल्लोपस्य स्थानिवत्त्वान्न जश्त्वम् । 'प्रत्यय भाषायां नित्यम्' इति तु न । तस्य सवर्णे परतो विधेः । न हि षकारसवर्णोऽनुनासिकोऽस्ति । नडशादाड्ड्वलच् ॥ नड्वल