पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२६
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे अप्रत्ययः स्यात् । 'घञः' इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ।

१२६८ । श्येनतिलस्य पाते ञे । (६-३-७१)

श्येन तिल एतयोर्मुमागमः स्यात् । ञप्रत्यये परे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनम्पाता मृगया । तिलपातोऽस्यां वर्तते तैलम्पाता स्वधा । 'श्येनतिलस्य' किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ।

१२६९ । तदधीते तद्वेद । (४-२-५९)

व्याकरणमधीते वेद वा वैयाकरणः ।

१२७० । क्रतूक्थादिसूत्रान्ताट्ठक् । (४-२-६०)

क्रतुविशेषवाचिनामेवेह ग्रहणम्। तेभ्यो मुख्यार्थेभ्यो वेदितरेि, तत्प्रति पादकग्रन्थपरेभ्यस्त्वध्येतरि । आग्निष्टोमिकः । वाजपेयिकः । उक्थं साम-


मृगयादिक्रियायामित्यर्थे घञन्तप्रकृतिकप्रथमान्तात्क्रियावाचिनः ञः स्यादित्यर्थः । फलितमाह । घञन्तादित्यादिनाकृद्ग्रहणादिति ॥ तत्प्रयोजनमनुपदमेव वक्ष्यते । श्येनतिलस्य पाते ञे ।। मुमागमः इति ॥ 'अरुर्द्विषत्' इत्यतः तदनुवृत्तेरितेि भावः । ञप्रत्यये इति । ञप्रत्यये परे यः पातशब्दः तस्मिन्नित्यर्थः । उत्तरपदे इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । श्येनपात इति ॥ पतनम्पातः । भावे घञ् । श्यैनम्पातेति । श्येनपातशब्दात् घञन्तात् ञः । यद्यपि पातशब्द एव घञन्तः । तथापि कृद्ग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणम्बोध्द्यम् । श्येनस्य पात इति कृद्योगषष्ठ्या समासः । तथाच श्येनपात शब्दस्यादिवृद्धिः । तैलम्पाता स्वधेति । स्वधाशब्दः स्त्रीलिङ्गः पित्र्यक्रियायां वर्तते । 'नमः स्वधायै' इत्यादिदर्शनात् । स्वधेत्यनेन क्रियायामिति नानुवर्तते इति सूचितम् । तदस्या मिति प्रकृते पुनरस्यामिति ग्रहणात् । तदधीते ॥ तदधीते इत्यर्थे तद्वेत्तीत्यर्थे च द्वितीया न्तादणादयः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्द्ययनम् । शब्दार्थज्ञान वेदनम् । एतेन अध्द्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसोक्तिः परास्ता । पृथग्ग्रहणवैयर्थ्यात् । यथाचैत त्तथा अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति ॥ अणि 'न य्वाभ्याम् इत्यैजागमः । क्रतूक्थादि ॥ 'तदधीते तद्वेद' इत्यर्थयोः क्रतु, उक्थादि, सूत्रान्ताः एभ्यः ठक् स्यादित्यर्थः । क्रतुविशेषवाचिनामेवेति । न तु क्रतुशब्दस्यैवेत्यर्थः । अन्यथा उक्थादिगण एव क्रतुशब्दमपि पठेदिति यावत् । ननु क्रतुविशेषाणां कथमध्द्ययनम् । अक्षर ग्रहणात्मकत्वभावादित्यत आह । तेभ्य इति ॥ अग्निष्टोमादिशब्दाः क्रतुविशेषेषु सुख्याः । तत्प्रतिपादकग्रन्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्यः अग्निष्टोमादिशब्देभ्यः वेदितरि प्रत्ययाः । अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्यः अध्द्येतरीत्यर्थः ।