पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७२५
बालमनोरमा ।

१२६३ । भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ । (४-२-५४)

भौरिकीणां विषयो देश: भौरिकिविधम् । भौलिकिविधम् । ऐषुका रिभक्तम् । सारसायनभक्तम्।

१२६४ । सोऽस्यादिरिति च्छन्दसः प्रगाथेषु । (४-२-५५)

अण् । पङ्किरादिरस्येति पाङ्क्तः प्रगाथः । 'स्वार्थ उपसङ्ख्यानम् (वा २७४४) । त्रिष्टुबेव त्रैष्टुभम् ।

१२६५ । संग्रामे प्रयोजनयोद्धृभ्यः । (४-२-५६)

'सोऽस्य' इत्यनुवर्तते । सुभद्रा प्रयोजनमस्य सङ्ग्रामस्येति सौभद्रः । भरता योद्धारोऽस्य संग्रामस्य भारतः।

१२६६ । तदस्यां प्रहरणामिति क्रीडायां णः । (४-२-५७)

दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा

१२६७ । घञः सास्यां क्रियेति ञः । (४-२-५८)


राजन्यक इत्यत्र राजन्यानां विषयो देश इत्यर्थः । भौरिक्याद्यैषु ॥ भौरिक्यादिभ्यः ऐषु कार्यादिभ्यश्च षष्ठ्यन्तेभ्यः यथाक्रमं विधल्, भक्तल्, एतौ प्रत्ययौ स्तो विषयो देश इत्यर्थे । भौरिकिविधमिति ॥ भौरिकीणां विषयो देश इत्यर्थः । भौलिकिविधमिति ॥ भौलु कीनां विषयो देश इत्यर्थः । ऐषुकारिभक्तमिति । ऐषुकारीणां विषयो देश इत्यर्थः । सारसायनभक्तामिति ॥ सारसायनानां विषयो देश इत्यर्थः । इह नपुंसकत्वं लोकात् । सोऽस्यादिरिति ॥ ऋग्द्वयमाम्नातम्पादावृत्त्या ऋक्त्रय सम्पद्यते । 'स च संप्रगाथे' इति छन्दोगसूत्रे बह्वृचसूत्रे च प्रसिद्धम् । षष्ठ्येकवचनस्थाने सप्तमीबहुवचनमार्षम् । सोऽस्य प्रगाथस्य आदिरित्यर्थे प्रथमान्तात् छन्दोविशेषवाचकात् अणादिप्रत्ययाः स्युरित्यर्थः । अक्षरे यत्ताविशेषो गायत्र्यादिछब्दः । पङ्क्तिरादिति ॥ पङ्क्तिच्छन्दस्का ऋक् आदिर्यस्य प्रगाथस्य सः पाङ्क्तः प्रगाथः इत्युच्यते इत्यर्थः । स्वार्थ इति ॥ छन्दोवाचिभ्यः स्वार्थे अणादिप्रत्ययस्यो पसङ्खानमित्यर्थः । त्रैष्टुभमिति ॥ क्लीबत्वं लोकात् । सङ्ग्रामेअनुवर्तते इति ॥ तथाच सङ्ग्राम इति सप्तम्यन्त षष्ठ्या विपरिणतम् अस्येत्यनेनान्वेति । तदस्य सङ्ग्रामस्य प्रेयाजनं, तेऽस्य सङ्ग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रथमान्तेभ्यः अणादयः स्युरित्यर्थः। तदस्याम् ॥ तत् अस्यां क्रीडायाम्प्रहरणमित्यर्थे प्रथमान्तात् प्रहरणवाचकात् णप्रत्ययः स्यादित्यर्थः । प्रह्नियते अनेनेति प्रहरणम् आयुधम् । दाण्डेति ॥ अणि तु दीर्घः स्यादिति भावः। मौष्टेति ॥ मुष्टिः प्रहरणमस्यां क्रीडायामिति विग्रहः । घञः सा ऽस्याम् । अस्यामित्यनन्तरं मृगयायामित्यादिस्त्रीलिङ्गविशेष्यमध्द्याहार्यम् । सा क्रिया अस्यां