पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२४
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

१२६० । इनित्रकट्यचश्च । (४-२-५१)

खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या । 'खलादिभ्य इनिर्वक्तव्यः’ (वा २७३५) । डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम्।

१२६१ । विषयो देशे । (४-२-५२)

षष्ठ्यन्तादणादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैबः । 'देशे' किम् । देवदत्तस्य विषयोऽनुवाकः ।

१२६२ । राजन्यादिभ्यो वुञ् । (४-२-५३)

राजन्यकः ।


उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः । इनिञकट्यचश्चस्युरिति ॥ इनि त्र कट्यच् एते स्युरित्यर्थः । खलिनीति ॥ खलानां समूह इति विग्रहः । इनिप्रत्यये नकारादिकार उच्चारणार्थः । स्त्रीत्वं लोकात् । नान्तत्वान्डीप् । गोत्रेति । गवां समूह इति विग्रहः । गोशब्दात् त्रः । स्रीत्वं लोकात्, टाप् । रथकट्येति । रथानां समूह इति विग्रहः । कट्यचि ककारस्य नेत्त्वम्, अतद्धित इत्युक्तेः । स्त्रीत्वाट्टाप् । खलादिभ्य इनिर्वक्तव्यः इति ॥ 'इनित्रकट्यचश्च' इति सूत्रे इनिग्रहणमकृत्वा 'गोरथात्त्रकठ्यचौ' इत्येवं सूत्रं कृत्वा 'खलादिभ्य इनिः' इति पृथक्कर्तव्यमित्यर्थः । विषयो देशे ॥ समूह इति निवृत्तम् । तस्येत्यनुवर्तते । तस्य विषय इत्यर्थे प्रथमोच्चारितात् षष्ठ्यन्तात्प्रत्ययाः स्युरिति लभ्यते । तदाह । षष्ठ्यन्तादिति ॥ विषयशब्दं व्याचष्टे । अत्यन्तपरिशीलितेऽर्थे इति ॥ देवदत्तविषयोऽनुवाक इत्यत्र तथा दर्शनादिति भावः । तर्हि तत्रातिव्याप्तिः स्यादित्यत आह । स चेदिति ॥ सः अत्यन्तपरिशीलितोऽर्थो देशश्चेदित्यर्थः । एवञ्च अत्यन्तपरिशीलिते देशे गम्ये प्रत्ययाः स्युरिति फलितम् । विषयशब्दो ह्ययं क्वचित् ग्रामसमूहात्मके जनपदे वर्तते । तद्यथा, सामन्तस्य राज्ञो विषयोऽनेन लब्ध इति क्वचिदिन्द्रियग्राह्ये वर्तते । तद्यथा, चक्षुर्विषयो रूपमिति क्वचिदन्यत्रावृत्तौ वर्तते । यथा मत्स्यानां विषयो जलमिति । अन्यत्र नास्तीति गम्यते । प्रकृते तु देवदत्तविषयोऽनुवाक इतिवदत्यन्तपरिशीलिते वर्तते । तत्र विषयशब्देन अत्यन्तपरिशीलितेऽर्थे अवगते सति अनुवाकादिव्यावृत्त्यर्थन्देशग्रहणम् । शिबीनां विषयो देश इति ॥ अत्यन्तपरिचितो देश इत्यर्थः । देवदत्तस्य विषय इति । अत्यन्तपरिचितोऽनुवाक इत्यर्थः । अत्र देशस्यानवगमात् न प्रत्यय इति भावः । विषय इति किम् । देवदत्तस्य कदाचिद्गन्तव्यो मार्गः । न च देवदत्तस्य ग्राममित्यत्र अत्यन्तपरिचितदेशत्वात् प्रत्ययः स्यादिति वाच्यम् । जनपदसमूहात्मकात्यन्तपरिशीलितदेशस्यैवात्र विवक्षितत्वात् । राजन्यादिभ्यो वुञ् ॥ तस्य विषयो देश इत्यर्थे राजन्यादिभ्यः षष्ठ्यन्तेभ्यो वुञ् स्यादित्यर्थः । अणोऽपवादः ।