पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७२३
बालमनोरमा ।

१२५१४ । खण्डिकादिभ्यश्च । (४-२-४५)

अञ्स्यात् । खण्डिकानां समूहः खाण्डिकम् ।

१२५५ । चरणेभ्यो धर्मवत् । (४-२-४६)

काठकम् । छान्दोग्यम् ।

१२५६ । अचित्तहस्तिधेनोष्ठक् । (४-२-४७)

साक्तुकम् । हास्तिकम् । धैनुकम् ।

१२५७ । केशाश्वाभ्यां यञ्छावन्यतरस्याम् । (४-२-४८)

पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ।

१२५८ । पाशादिभ्यो यः । (४-२-४९)

पाश्या । तृण्या । धूम्या । वन्या । वात्या ।

१२५९ । खलगोरथात् । (४-२-५०)

खल्या । गव्या । रथ्या ।


मध्योदात्ताविति भावः । खण्डिकादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे । अञ् स्यादिति ॥ समूहे इति शेषः । आद्युदात्तार्थमिदम् । चरणेभ्यो धर्मवत् ॥ चरणाः शाखाध्येतारः । धर्मेऽर्थे याभ्यः प्रकृतिभ्यो ये प्रत्यया वक्ष्यन्ते ते ताभ्यः प्रकृतिभ्यः समूहे स्युरित्यर्थः । काठकमिति । कठानां समूह इति विग्रहः । 'गोत्रचरणाद्रुञ्’ इति धर्मे वक्ष्यमाणो वुञ् समूहेऽपि भवति । छान्दोग्यमिति ॥ छान्दोगाः सामशाखिनः, तेषां समूह इति विग्रहः । 'छन्दोगौक्थिकयाज्ञिकबह्वृचनटात् ञ्यः’ इति धर्मे वक्ष्यमाणो ञ्यः समूहेऽपि भवति । अचित्तहस्ति । अचित्ताः अप्राणिनः तद्वाचिभ्यः हस्तिशब्दात् धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । 'इसुसुक्तान्तात्कः’ इत्युकः परत्वाट्ठस्य कः । आदिवृद्धिः । हास्तिकमिति ॥ हस्तिनां समूह इति विग्रहः । ठक्, इकः टिलोपः, आदिवृद्धिः । धैनुकमिति ॥ धेनूनां समूह इति विग्रहः । उकः परत्वात् ठस्य कः । आदिवृद्धिः । केशाश्वाभ्याम् ॥ समूह इत्येव । कशाद्यञ् वा, अश्वाच्छो वेत्यर्थः । पक्षे इति ॥ केशाद्यञभावे “ अचित्त' इति ठक् । अश्वात् छाभावे अणित्यर्थः । कैश्यम्-कैशिकमिति ॥ केशानां समूह इति विग्रहः । क्रमेण यञ्ठकौ । अश्वीयम् आश्वमिति । क्रमेण छाणौ । पाशादिभ्यो यः ॥ समूह इत्येव । पाश्येत्यादि । पाशानां तृणानां धूमानां वनानां वातानां च समूह इति विग्रहः । स्त्रीत्वं लोकात् । खलगोरथात् ॥ समूह इत्येव । खल, गो, रथ-एभ्यो यः स्यादित्यर्थः । खल्या । गव्या । रथ्येति ॥ खलानां गवां रथानां च समूह इति विग्रहः । यद्यपि खलादिष्वेव एषां पाठो युक्तः । तथापि