पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७२७
बालमनोरमा ।

विशेषः । तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा औक्थिकः । ‘मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते ' । न्यायम् - नैयायिकः । वृत्तिम्-वार्तिकः । लोकायतम्-लोकायतिकः इत्यादि । 'सूत्रान्तात्त्वकल्पादेरेवेष्यते' (२७४४) । सांग्रहसूत्रिकः । “ अकल्पादेः' किम् । काल्पसूत्रः । 'विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम्’ (वा २७४४) । वायसविद्यिकः । गौलक्षणिकः । आश्वलक्षणिकः । पाराशरकल्पिकः । 'अङ्गक्षत्रधर्मत्रिपूर्वाद्वि द्यान्तान्नेति वक्तव्यम्' (वा २७४५) । आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या । तामधीते वेद मा त्रैविद्य : । 'आख्यानाख्यायिके- तिहासपुराणेभ्यश्च' (वा २७४६) । यवक्रीतमधिकृत्य कृतमाख्यानमुपचारा द्यवक्रीतम्, तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता


आग्निष्टोमिक इति । अग्निष्टोम क्रतु वेत्ति तत्प्रतिपादकग्रन्थमधीते इति वार्थः । उक्थशब्दः सामसु मुख्यः । सामलक्षणग्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थकादेव उक्थ शब्दाड्ठगित्याह । उक्थं सामविशेष इति । अग्निष्टोमस्तोत्रात्परं यत्साम गीयते इति वृत्तिकृदुक्त्तेरिति भावः । भाष्ये तु सामशब्दपर्याय उक्थशब्द इति लभ्यते । मुख्यार्थादिति । सामवाचिनः उक्थशब्दात्तु न ठक्, तस्मिन्निषिद्धे तदधीते इत्यण् च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थकादुक्थशब्दात् ठक् नेत्येव लक्ष्यते । उक्थादिगणपठितात् न्यायादिशब्दात् ठकमुदाहरति । न्यायमिति । अधीते वेत्ति वेति शेषः । नैयायिक इति ॥ ठकि ऐजागमः । वृत्तिमिति । अधीते वेद वेति शेषः । वार्तिक इति॥ ठकि आदिवृद्धौ रपरत्वम् । साङ्ग्रहसूत्रिक इति । सङ्ग्रहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः । विद्यालक्षणेति ॥ विद्या, लक्षण, कल्प एतदन्तादपि उक्तेsर्थे ठगित्यर्थः । अङ्ग, क्षत्र, धर्म, त्रि,एतत्पूर्वकाद्विद्यान्तात् समासान्तात् ठक् नेत्यर्थः । ततश्च अणेव । त्रिविधा विद्या त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिस्रो विद्यास्त्रिविद्या इति न विग्रहः। दिक्सङ्ख्ये संज्ञायाम्' इति नियमात् । नापि तिस्रो विद्या अधीते वेद वेति तद्धितार्थे द्विगुः । तथा सति तद्धितस्य द्विगुनिमित्ततया 'द्विगोर्लुगनपत्ये' इति लुगापत्तेः । तिसृणां विद्यानां समाहार इति द्विगुरप्यत्र निर्बाध एव । आख्यानेति ॥ आख्यान आख्यायिका, इतिहास, पुराण एभ्यश्च उक्थे ठग्वक्तव्य इत्यर्थः । तत्र आख्यानशब्देन आख्यायिकाशब्देन च आख्यानविशेषवाचिनः आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहास- पुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । आख्यानं नाम कथाप्रबन्धः । “ आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्” इत्यमरः । “इतिहासः पुरावृत्तम्” इति च । “सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितञ्चेति पुराणं पञ्च लक्षणम् ॥” तत्र आख्यानादुदाहरति । यावक्रीतमिति ॥ आख्यायिकाया उदाहरति । वासवदत्तामिति ॥ लुग्वक्तव्य