सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । “पूर्व पदात्संज्ञायाम्--' । (सू ८५७) इति णत्वम् । आग्रहायणी पौर्णमास्यस्मि न्नाग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमास्यश्वत्थः । निपातनात्पौर्ण मास्यामपि लुप् । आश्वत्थिक ।

१२२५ । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः । (४-२-२३)

एभ्यष्टग्वा । पक्षेऽण् । फाल्गुनिकः-फाल्गुनो वा मासः । श्रावणिकः श्रावणः | कार्त्तिकिक:-कार्त्तिकः । चैत्रिक:-चैत्रः ।*

१२२६ । साऽस्य देवता । (४-२-२४)

इन्द्रो देवता अस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमान द्रव्ये उद्देश्यविशेषो देवता, मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । “ आग्नेयो वै ब्राह्मणो देवतया' इति तु शैषिकेऽर्थे 'सर्वत्राग्नि-' (वा २६८९) इति ढक् ।


अणोऽपवादः । हायनमिति । सवत्सर इत्यर्थः । “संवत्सरो वत्सरोऽब्देो हायनोऽस्त्री” इत्यमरः । यस्या ऊध्र्वं सवत्सरस्यारम्भः सा पौर्णमासी आग्रहायणीत्यर्थः । तर्हि आग्रहायणेति स्यादित्यत आह । प्रज्ञादेरिति ॥ 'प्रज्ञादिभ्यश्च' इति स्वार्थे अणि 'टिड्ढ' इति डीबित्यर्थः । अश्वत्थेनेति । अश्वनीनक्षत्रेणत्यर्थः । अश्वत्थ इति ॥ नक्षत्राणः “लुब विशेष' इति लुबिति भावः । ननु 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति निर्देशेन पैौर्णमास्यां “लुबविशेषे' इत्यस्याप्रवृत्तेरुक्तत्वात् कथमिह लुबित्यत आह । निपातनात्पौर्ण मास्यामपि लुबिति ॥ तथाच पौर्णमास्यां लुब् नेति ज्ञापनमेतद्यतिरिक्तविषयमिति भावः । विभाषा फाल्गुनी ॥ एभ्यष्टग्वेति ॥ “सास्मिन्’ इत्युक्तविषये इति शेषः । फाल्गु निकः-फाल्गुनो वा मास इति ॥ फाल्गुनी पौर्णमास्यस्मिन्निति विग्रहः । एवं श्रावणिक इत्यादि । इति युक्ताद्यर्थकः ।* साऽस्य देवता । अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः । ऐन्द्रं हविरिति ॥ इन्द्रात्मकदेवतासम्बन्धीत्यर्थः । पाशुपतमिति ॥ पशुपतिर्देवता अस्येति विग्रहः । ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्र्यमित्या द्यनुपपन्नमित्यत आह । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवतेति ॥ हविःशेषमृत्विग्भ्यो ददाति । विप्राय गां ददाति इत्यादौ ऋत्विग्विप्रादेर्देवतात्वव्यावृत्तये विशेषग्रहणम् । त्यज्यमान हविस्साध्यः अस्मदाद्यप्रत्यक्षः यस्तृप्त्याद्युपकारः तदाश्रयो देवतेति यावत् । मन्त्रस्तुत्या चेति ॥ “ अग्निमीडे पुरोहितम्” इत्यादिमन्त्रेषु यज्ञपुरोहितत्वादिगुणविशिष्टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः । ऐन्द्रो मन्त्र इति ॥ इन्द्रार्थस्तुत्यको मन्त्र इत्यर्थः । ननु 'आग्नेयो वै ब्राह्मणो देवतया' इत्यत्र कथन्देवतातद्धितः । अत्र अग्नेर्हविरुद्दश्यत्वस्य मन्त्रस्तुत्यत्वस्य वाऽभावादित्यत आह । “ आग्नेयो वै ” इति ॥ शैषिकेऽर्थे इति ॥ शेषे इति सूत्रलब्धे