पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७१५
बालमनोरमा ।

१२२७ । कस्येत् । (४-२-२५)

क शब्दस्येदादेशः स्यात्प्रत्ययसन्नियोगेन ।| यस्य (सू ३११) इति लोपात्परत्वादादिवृद्धिः ।। को ब्रह्मा देवता अस्य कायं हविः । श्रीर्देवता अस्य श्रायम् ।

१२२८ । शुक्राड्धन् । (४-२-२६)

शुक्रियम् ।

१२२९ । अपोनप्त्रपान्नप्तृभ्यां घः । (४-२-२७)

अपोनप्त्रियम्-अपात्रप्त्रियम् । अपोनपात्-अपान्नपाञ्च देवता । प्रत्य यसन्नियोगेन तूक्त्तं रूपं निपात्यते । अत एवापोनपाते-अपान्नपातेऽनुब्रूहीति प्रैषः।

१२३० । छ च । (४-२-२८)


तदभिमानिकत्वे गम्ये इत्यर्थः । अग्निर्नाम यो देवताजातिविशेषो लोकवेदसिद्धः तदभिमानिको ब्राह्मण इति बोधः । कस्येत् । प्रत्ययसन्नियोगेनेति ॥ 'साऽस्य देवता' इति विहिते कशब्दादण्प्रत्यये परे तत्सन्नियोगेन प्रकृतेरिकारोऽन्तादेश इत्यर्थः। तथाच कशब्दादणि प्रकृते रिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम् । तत्र कि अ इतेि स्थिते 'यस्येति च इति इकारलोपमाशङ्कय आह । यस्येति लोपात्परत्वादादिवृद्धिरिति ॥ कशब्दस्य विवरणं ब्रह्मेति । यद्यप्यत्र इत्वविधिबलादेव लोपो न भवतीति भाष्यम् । तथापि वस्तुस्थिति कथनमिदम् । तस्य प्रयोजनमाह । श्रीर्देवता अस्य श्रायं हविरिति । अत्रेदमवधेयम् कस्येत्' इत्यत्र कशब्दस्य अकारान्तस्य षष्ठयेकवचनमित्येकः पक्षः सर्वादिगणपठितस्य किं शब्दस्य षष्ठयेकवचनामिति पक्षान्तरम् । तत्राद्यपक्षे हविःप्रचारे “कायानुब्रूहि' इति प्रैष इति निर्विवादम् । सर्वादिगणबहिर्भूतत्वेन स्मैभावासम्भवात् । द्वितीयपक्षे तु किशब्दस्य प्रजापति नामत्वेन असर्वनामत्वान्न स्मैभावः। अन्वर्थसंज्ञाबलेन एकार्थवृत्तेः संज्ञाशब्दस्य सर्वनामत्वा भावात् । तथाच कायानुबूहीत्येव प्रैषः । यद्वा प्रजापतेः सर्वात्मकत्वेन तन्नाम्नः किंशब्दस्य सर्वना मत्वात् “ कस्मा अनुबूहि” इत्येव सम्प्रैष इति भाष्ये प्रपश्चितम् । एवञ्च विष्णुसहस्रनामसु “विश्वं विष्णुः” इति, “एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्” इति च पठितविश्वादिशब्देष्वप्ययं न्याय स्तुल्यः । तथाच विश्वस्मै नमः, विश्वाय नमः, इत्यादि प्रयोज्यमिति प्रासङ्गिकम्। शुक्राद्धन् साऽस्य देवता' इत्यर्थे इति शेषः । शुक्रियमिति शुक्रो देवता अस्येति विग्रहः । अपोनप्त्रपान्नप्तृभ्याङ्घः ॥ प्रत्ययसन्नियोगेनेति ॥ घप्रत्ययसन्नियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपात्रपाच्छब्द स्य अपान्नप्तृभावश्च निपात्यते इत्यर्थ अत एवेति ॥ घप्रत्ययसान्नियोगेनैव उक्तादेशविधेरित्यर्थः । अत्र घप्रत्ययाभावान्नोक्तादेशाविति भावः । छ च उत्क्तविषये छोऽपीत्यर्थः । ननु अपोनप्त्रपान्नप्तृभ्याङ्घच्छौ इत्येवास्तु । तत्राह । योगविभाग