पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७१३
बालमनोरमा ।

'इस्’ “उस्’ “उक्' 'त' एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृत: औदश्वित्क:-औदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आशिषा चरत्याशिषिकः । उषा चरति औषिकः ।

  • दोषं उपसंख्यानम्’ (वा ५०५१) । दोर्भ्यो चरति दौष्कः ।

१२२२ । क्षीराङ्ढञ् । (४-२-२०)

अत्र संस्कृतम्' इत्येव सम्बध्यते, न तु भक्षा इति । तेन यवाग्वामपि भवति । क्षैरेयी ।

१२२३ । सास्मिन्पौर्णमासीति । (४-२-२१)

इति' शब्दात् “संज्ञायाम्' इति लभ्यते । पौषी पौर्णमास्यस्मिन्पौषो मासः ।

१२२४ । आग्रहायण्यश्वत्थाट्ठक् । (४-२-२२)


तकारादकारः उच्चारणार्थः । ठस्य कः स्यादिति ॥ ठकि ककार इत्, अकार उच्चारणार्थः ठकारस्य शिष्टस्य ककारः अन्तादेश इति “ठस्येक:’ इत्यत्रोक्तम् । श्वयतीत्यस्य विवरणं वर्धते इति । “टु ओ वि गतिवृध्द्योः' इति धातुरिह वृध्द्यर्थक इति भावः । उदश्विदिति । क्विपि तुक् । ‘उदकस्योदः संज्ञायाम्' इत्युदादेशः । “तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्” इत्यमरः । प्रतिपदोक्तयोरिति ॥ इस्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्कः, धानुष्कः इति । आशिषिक इति । चरतीति ठक् । शासुधातोः क्विपि “आशासः क्वौ' इत्युपधाया इत्त्वम् । उषा चरति औषिक इति ॥ वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्तम् । 'शासिवसिघसीनाञ्च ' इति उभयत्र षत्वम् । दोष इति ॥ दोष्शब्दात् ठस्य कः स्यादित्यर्थः । दौष्क इति ॥ तरतीति ठक् । क्षीराड्ढञ् ॥ क्षैरेयीति ॥ क्षीरे संस्कृता यवागूरित्यर्थः । भक्षग्रहणानुवृत्तौ त्विह न स्यात् । यवाग्वाः पेयत्वेन खाद्यत्वाभावात् । सास्मिन्पौर्ण मासीति ॥ “तत्र' इति 'संस्कृतं भक्षाः' इति च निवृत्तम् । सा पौर्णमासी अस्मि न्नित्यर्थे प्रथमान्तात्प्रत्ययः स्यादित्यर्थः । इतिशब्दादिति ॥ एतच्च भाष्ये स्थितम् । पौषीति ॥ पुष्येण युक्ता पौषी पौर्णमासी, सा यस्मिन्मासे स पौषो मासः । पौषी शब्दादणि 'यस्येति च' इति ईकारलोपः । एव मघाभिर्युक्ता पैौर्णमासी माघी, सा यस्मिन्स माघो मासः । तथा फाल्गुन इत्यादि । संज्ञायां किम् । पौषी पौर्णमासी आस्मिन्पञ्चदशरात्रे । आग्रहायण्यश्वत्थाट्ठक् ॥ पूर्वसूत्रविषये आग्रहायणीशब्दादश्वत्थशब्दाच्च ठक् स्यादित्यर्थः। १. अत्र च “अथेह कथं भवितव्यम्-दोर्भ्यां तराति दौष्क इति भवितव्यम्’ इति भाष्यं मानम् | 90