शरावे उद्धृतः, शाराव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ।
१२१६ । स्थण्डिलाच्छयितरि व्रते । (४-२१५)
'तत्र' इत्येव। समुदायेन चेद्व्रतं गम्यते। स्थण्डिले शेते स्थाण्डिलो भिक्षुः।
१२१७ । संस्कृतं भक्षाः । (४-२१६)
सप्तम्यन्ताद्ण्स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृताः भ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः पुराडाशः ।
१२१८ । शूलोखाद्यत् । (४-२-१७)
अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः । तस्या सस्कृतमुख्यम् । १२१९ । दध्नष्ठक् । (४-२१८) दध्नि संस्कृतं दाधिकम्।
१२२० । उदश्वितोऽन्यतरस्याम् । (४-२-१९)
ठक्स्यात् । पक्षेऽण् ।
१२२१ । इसुसुक्तान्तात्कः । (७-३-५१)
शरावस्यापादानत्वात् कथं सप्तमीत्यत आह्। उद्धरतिरिहेति । “सास्मिन्पौर्णमासी' इत्यतः प्राक् तत्रेत्यनुवर्तते । स्थण्डिलाच्छयितरि ॥ स्थण्डिलशब्दात्सप्तम्यन्तात् व्रतनिमित्तक शयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः । संस्कृतं भक्षाः । भक्ष्यन्त इति भक्षाः, कर्मणि घञ् । तत्रेत्यनुवर्तते । तदाह । सप्तम्यन्तादिति । एकवचनं बहुवचनश्च सामान्याभि प्रायम् । “जात्याख्यायामेकस्मिन्बहुवचनम्' इत्याद्युक्त्तेरित्यभिप्रेत्य आह । यत्संस्कृतं भक्षाश्चत्ते स्युरिति । संस्कारो नाम पाकादिना गुणविशेषाधानम् । अष्टाकपाल इति ॥ तद्धितार्थ' इति समासः । भक्षा इति किम् । पुष्पपुटे सस्कृतं वस्रम् । शूलोखाद्यत् ॥ समाहारद्वन्द्वात्पञ्चमी । तत्रेति संस्कृतम्भक्षा इति चानुवर्तते । सप्तम्यन्ताच्छूलशब्दादुखाशब्दाच्च संस्कृतं भक्षाः' इत्यर्थे यत् स्यादित्यर्थः । उखा पात्रविशेष इति । “पिठरं स्थाल्युखा कुण्डम्” इत्यमरः । दध्नष्ठक् । सप्तम्ताद्दधिशब्दात् संस्कृतम्भक्षा इत्यर्थे ठक् स्यादित्यर्थ । अणोऽपवादः । दाधिकमिति ॥ ठकि इकादेशे ‘यस्येति च' इति इकारलोपः । इह दध्नि अधिकरणे संस्कारो लवणादिना भवति । प्राग्वहृतेरित्यत्र तु 'संस्कृतम्’ इति तृतीयान्तात् ठग्वक्ष्यते । उदश्वितोऽन्यतरस्याम्।। ठक् स्यादिति । शेषपूरणम्। उक्तविषये उदश्र्वि- च्छब्दाट्ठग्वा स्यादित्यर्थः । इसुसुक्तान्तात्कः ॥ इसुसुक्ताः अन्ता यस्येति विग्रहः ।