पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०८
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

अथ तद्विते चातुरर्थिकप्रकरणम् ।

१२०२ । तेन रक्तं रागात् । (४-२-१)

रज्यतेऽनेनेति रागः, कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । रागात्' किम् । देवदत्तेन रक्तं वस्त्रम् ।

१२०३ । लाक्षारोचनाट्ठक् । (४-२-१)

लाक्षिकः । रौचनिकः । “शकलकर्दमाभ्यामुपसंख्यानम्’ (वा २६७९) । शाकलिकः । कार्दमिक: । “ आभ्यामणपि' इति वृत्ति : । शाकलः । कार्दमः । 'नील्या अन्' (वा २६८०) । नील्या रक्तं नीलम् । 'पीतात्कन्' (वा २६८१) । पीतकम् । ‘हरिद्रामहारजनाभ्यामञ्’ (वा २६८२) । हारिद्रम् । माहारजनम् ।

१२०४ । नक्षत्रेण युक्तः कालः । (४-२-३)

पुष्येण युक्तं पौषमहः । पौषी रात्रिः ।


अथ तद्धितचातुरर्थिकप्रकरणं निरूप्यन्ते-तेन रक्तं रागात् ।। रज्यते इति ॥ रज्यते वर्णान्तरं प्राप्यते अनेनेत्यर्थे रञ्जेः करणे घनि कृते *घाञि च भावकरणयोः' इति यलेोपे ‘चजोः कुघिण्ण्यतोः' इति कुत्वे रागशब्द इत्यर्थः । तथाच रागशब्देन रञ्जनसाधनं द्रव्यमुक्तम्भवति । तेनेति सामान्यनिर्देशः । तथाच तेन रक्त वर्णान्तरम्प्राप्तमित्यर्थे रागात् रञ्जनद्रव्यवाचकात् तृतीयान्तादण् स्यादित्यर्थः । 'प्राग्दीव्यतोऽण्’ इत्यधिकारात् । कषाये णेति । कषायेो धातुविशेष ' रञ्जनद्रव्यं, तन्न रक्त वर्णान्तरं प्राप्तङ्कषायमित्यर्थः । माञ्जिष्ठ मिति ॥ मञ्जिष्ठं नाम रञ्जनद्रव्यविशेषः । लाक्षारोचनाट्ठक् ॥ अणोऽपवादः । लाक्षिक इति ॥ पट इति शेषः । लाक्षया रक्त इति विग्रहः । रौचनिक इति । रोचनया रक्त इति विग्रहः। शाकलिकः इति ॥ शकल रागद्रव्यविशेषः। वृत्तिरिति ॥ भाष्ये तु नैतदृष्टम् । नील्या अनिति ॥ वक्तव्य इति शेषः । अणोऽपवादः । नीली ओषधिविशेषः । “पीतात्कन् अणोऽपवादः । पीतं हरिताळकादि द्रव्यम्। हरिद्रामहेति । अणोऽपवादः । स्वरे विशेषः। हरिद्रा प्रसिद्धा। महारजनन्नाम रागद्रव्यविशेषः । इति रक्ताधिकारः ।* नक्षत्रेण ॥ अस्मिन्नर्थे प्रथमोचा रितात् नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः । नक्षत्रयुक्तश्चन्द्रमाः नक्षत्रशब्देन विवक्षितः । पुष्येण युक्तमिति । पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थ |पौषम् अहरिति । पुष्यशब्दादणि ‘तिघ्यपुष्ययोर्नक्षत्राणि यलोपः’ इति यलोपः। पौषी रात्रिरिति ॥ पुष्ययुक्तचन्द्रमसा युक्तेत्यर्थः । अणि यलोपे 'टिड्ढ’ इति डीप् । नक्षत्रेणेति किम् । चन्द्रेण युक्ता