१२०५ । लुबविशेषे । (४-२-४)
पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मककालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि ' पुष्ययुक्तन्न पौर्णमासी पौषी' इति । “विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्य:’ (सू १२२५) इति निर्देशेन पौर्णमास्यामयं लुब्नेति ज्ञापितत्वात् । श्रवणशब्दातु अत एव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि ? । श्रावणी ।
१२०६ । संज्ञायां श्रवणाश्वत्थाभ्याम् । (४-२-५)
विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । ‘संज्ञायाम्' किम् । श्रावणी । आश्वत्थी ।
रात्रिः । कालः किम् । पुष्येण युक्तश्चन्द्रमाः । लुबविशे ॥ षष्टिदण्डेति ॥ षष्टिघटिका परिच्छिन्ने काले एकैकस्मिन् एकैकेन नक्षत्रेण चन्द्रमा युज्यते इति स्थितिः । तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषः अहर्वा रात्रिर्वेति न गम्यते चेदित्यर्थः । अद्य पुष्य इति ॥ अद्येत्यव्ययम् अहोरात्रवाचि अधिकरणशक्तिप्रधानम् । इह तु अधिकरणशक्तिविनिर्मुक्तः । अहोरात्रकालो विवक्षितः । तथाच अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः । अहर्वा रात्रिर्वेति विशेषानवगमादणो लुप् । कथं तहति ॥ पौर्णमास्याः षष्टिदण्डात्मिकाया अवा न्तरविशेषानवगमादिह लुप् स्यादित्याक्षेपः । समाधत्ते । विभाषेति ॥ फाल्गुनीकार्तिकीशब्दानां नक्षत्राण्विशिष्टानाम्पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्यान्नक्षत्रयुक्तायां “लुबविशेषे' इत्ययं लुप् नेति ज्ञापितत्वात् । पौषी पौर्णमासीत्यत्र न लुबित्यर्थः । ननु तर्हि श्रवणयुक्तपैौर्णमास्यां लुबभावात् कथं श्रवणेति निर्देश इत्यत आह । श्रवणशव्दात्त्वत एव लुबिति ॥ श्रवणेति निपातनादेव पौर्णमास्यां लुबित्यर्थे । ननु 'कृत्तिका श्रवणः पुष्यः चित्रास्वात्योर्यदन्त रम्' इत्यादौ श्रवणशब्दस्य पुलिङ्गत्वदर्शनेन तस्मादणेो लुपि कृते “लुपि युक्तवव्द्यक्तिवचने इति पुलिङ्गत्वावश्यंभावाच्छूवणेति कथं स्त्रीलिङ्गतेत्यत आह । युक्तवद्भावाभावश्चेति ॥ निपातनादिति शेषः । ननु तर्हि श्रावणीति नैव स्यादित्यत आह । अबाधकान्यपि निपातनानीति ॥ इयं परिभाषा वृत्तौ स्थिता । सर्वादिसूत्रभाष्ये तु 'बाधकान्येव निपातनानि इत्युक्तम् । संज्ञायाम् ॥ श्रवणाश्वत्थाभ्याम्परस्य नक्षत्रप्रत्ययस्य लुप् स्यात्संज्ञायामित्यर्थः । ननु 'लुबविशेषे' इत्येव सिद्धे किमर्थमिदमित्यत आह । विशेषार्थोऽयमारम्भ इति ॥ श्रवणा रात्रिरिति ॥ श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थे । 'विभाषा फाल्गुनीश्रवणा' इति सूत्रे श्रवणति निर्देशस्य सामान्यापेक्षत्वात् अपौर्णमास्यामपि युक्तवद्भावो नेति विज्ञायते । अतः श्रवणा रात्रिरिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्पष्टम् । अश्वत्थो मुहूर्त इति ॥ अश्वत्थो नाम अश्विनीनक्षत्रम् । तेन युक्तः अश्वत्थः, मुहूर्तविशेषो ज्योतिषे प्रसिद्धः |