पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७०७
बालमनोरमा ।

१२०० । क्रौड्यादिभ्यश्च । (४-१-८०)

स्त्रियां ष्यङ्प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिञन्तार्थश्चारम्भः । क्रौड्या । व्याड्या । “सूत युवत्याम्' (ग सू ५५) सूत्या । ‘भोज क्षत्रिये' (ग सू ५६) । भोज्या ।

१२०१ । दैवयज्ञिशौचिवृक्षसात्यमुग्रिकाण्डेविद्विभ्यो ऽन्यतरस्याम् । (४-१-८१)

एभ्यश्चतुभ्र्यः ष्यङ्वा । अगोत्रार्थमिदम्, गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे 'इतो मनुष्य -' (सू ५२०) इति ङीष् । दैवयज्ञया-दैवयज्ञी । इत्यादि । इति अपल्याधिकारप्रकरणम् ।


इत्यर्थः । कुलव्यपदेशकृतः इति यावत् । तदाह । कुलाख्या इति ॥ कुलम् आख्यायते व्यपदिश्यते आभिरिति कुलाख्या । कुलनामानीत्यर्थः । पुणिकादिशब्दैर्हि कुलं व्यपदिश्यते । पुणिकाः वयं, भुणिकाः वयमित्यादि । अवपूर्वकात् ‘यु मिश्रणे' इति धातोरुपसर्गवशेन प्रख्यात्यर्थकात् पचाद्यचि अवयवशब्दः । कुलस्यावयवः प्रख्यापकशब्दः कुलावयव इति लभ्यत इति भावः । ननु पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह । अगुरूपोत्तमार्थः इति ॥ गोत्रादवयुतं मिश्रितम् अनन्तरापत्यन्तदर्थमित्यपि भाष्ये स्पष्टम् । एवञ्च पूर्वसूत्रे अपत्याधिकारबहिर्भूतेऽपि पारि भाषिकमेव 'गोत्रङ्गुह्यते' इति भाष्यस्वरसः । पौणिक्येति ॥ पुणिकस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङि चाप् । एवम्भौणिक्या मनुष्यनामत्वे तन्नामिकाणःष्यङ् । क्रौड्यादि भ्यश्च ॥ “प्रत्ययविधिः' इति भाष्योक्तम्पक्षान्तरमाश्रित्य आह । ष्यङ्प्रत्यय इति ॥ पूर्वेण सिद्धे किमर्थमिदमित्यत आह । अगुरूपोत्तमार्थोऽनणिञन्तार्थश्चेति ॥ क्रौड्ये ति ॥ क्रोडस्यापत्यं स्त्रीति विग्रहे अत इञन्तात्ष्यङ् , चाप् । इह 'त्र्यादीनामन्यमुत्तमम्' इत्युक्तेनागुरूपोत्तमत्व, मनुष्यनामत्वेत्वण् । भौकक्ष्यशब्दो गर्गादियञन्तः । तस्य अनणि ञन्तत्वेऽपि ष्यङ्। सूतयुवत्यामिति ॥ गणसूत्रमिदम्। सूतशब्दो युवत्यां ष्यङ् लभते इत्यर्थः । सूत्येति ॥ प्राप्तयौवनेत्यर्थः । जातौ तु सूतीत्येव । भोज क्षत्त्रिये ॥ इदमपि गणसूत्रम् । दैवयज्ञि ॥ अगोत्रार्थमिति । अनन्तरापत्यार्थमित्यर्थः । प्रवर्तते इति ॥ विकल्प इति शेषः । पक्षे इति ॥ ष्यङभावपक्षे इत्यर्थः । दैवयज्ञीति ॥ देवयज्ञस्यापत्यं स्त्रीति विग्रहे अत इञन्तात्ष्यङ्विकल्पः । इत्यादीति ॥ शुचिवृक्षस्यापत्यं स्त्री शौचिवृक्ष्या-शैौचिवृक्षी । सत्यमुग्रः निपतनान्मुम् । सत्यमुग्रस्यापत्यं स्त्री सात्यमुग्रया-सात्यमुग्री । काण्डेन विद्धः काण्डे विद्धः । निपातनादेत्त्वम् । काण्डेविद्धस्यापत्यं स्री काण्डविध्या-काण्डेविद्धी । कर्णंविद्धीति पाठान्तरम् |

इत्यपत्याधिकारप्रकरणम् ।