पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

त्र्यादीनामन्यमुत्तमं, तस्य समीपमुपोत्तमम्। गोत्रे यावणिज्यौ विहिता वनार्षौ तदन्तयोर्गुरूपोत्तमयो: प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् । 'निर्दिश्यमानस्यादेशा भवन्ति' (प १३) इत्यणिज्योरेव । षङावितैौ । 'यङ श्चाप्' (सू ५२८) । कुमुद्गन्धेरपत्यं स्त्री कौमुद्गन्ध्या । वाराह्या । 'अना र्षयोः' किम् । वासिष्ठी । वैश्वामित्री । “गुरूपोत्तमयोः' किम् । औपगवी । जातिलक्षणो ङीष् । “गोत्रे' किम् । अहिच्छत्त्रे जाता आहिच्छत्त्री ।

११९९ । गोत्रावयवात् । (४-१-७९)

गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या ।


लभ्यते । 'अणिञोः ' इत्यनेन प्रत्यग्रहणपरिभाषया अणिजन्तयोहणम् । गोत्रे इत्येतत् अणिञोरन्वेति । ऋषेरविहितौ अनार्षे । इदमपि अणिोर्विशेषणम् । स्त्रियामित्यधिकृतम् । तदाह । गोत्रे यावणिञावित्यादिना ॥ आदेशः स्यादिति ॥ स्थानषष्ठीनिर्देशा दादेशत्वलाभः । ननु अणिञन्तयोः ष्यङादेशाऽयमनेकाल्त्वात् सर्वादेशः स्यादित्यत आह । निर्दिश्यमानस्येति ॥ तथा च अणिञोरेवायमादेश इति भावः । 'ङिच्च' इत्यन्तादेश इति न युक्तम् । ङित्वस्य ष्यडः सम्प्रसारणमित्यादौ चरितार्थत्वात् । कुमुदगन्धेरिति ॥ कुमुद गन्ध इव गन्धो यस्येति विग्रहः । ‘सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यः उत्तरपदलोपश्च' इति बहुव्रीहिः। पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च । ‘उपमानाच्च' इति इत्त्वम् । कुमुदगन्धे रपत्यं स्त्रीति विग्रहे अण् । ‘यस्येति च' इति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र यकारादणोऽकार उत्तमः, तत्समीपवर्तीं गुरु गकारादकारः । 'संयोगे गुरु' इत्युक्तेः । नचा नुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वङ्गकारादकारस्येति वाच्यम् । “येन नाव्यवधान न्तेन व्यवहितेऽपि' इति न्यायेन हला व्यवधानस्यादोषत्वात् । नह्यणि परे अव्यवहितो गुरु क्वचिदस्ति । एवञ्च गुरूपोत्तमं प्रातिपदिङ्कौमुदगन्धेत्यणन्तं, तदवयवस्य अणः ष्यङादेश यङश्चाप्’ इति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इञन्तस्योदाहरति । वाराहोति ॥ वराह स्यापत्यं स्त्रीति विग्रहः । अत इञ्, अकारलोपः, वाराहिशब्दः । तत्र इकार उत्तमः । रेफादाकार उत्तमसमीपवर्ती गुरुः । इञ्, इकारस्य ष्यङादेशः, चाबिति भावः । वासिष्ठी । वैश्वामित्त्रीति ॥ ऋष्यणन्तावेतौ । औपगवीति ॥ अणन्तत्वेऽपि गुरूपोत्तमत्वाभावान्न ष्यङ् । जातिलक्षण इति ॥ “गोत्रञ्च चरणैः सह” इति जातित्वम् । आहिच्छत्रीति ॥ जातार्थे अणयं, नतु गोत्र इति न ष्यङ् । नच घ्यङ्प्रत्यय एव कुतो न विधीयते इति वाच्यम् । तथा सति उदमेयस्यापल्यं स्त्री इति विग्रहे अत इञि ष्यङि चापि औदमेय्या, तस्याः अपत्यं औदमेयेयः इति न सिद्येम् । अस्यापत्यप्रत्ययत्वाभावेन यलोपाप्राप्तरिति स्पष्टं भाष्ये । गोत्रावयवात् ॥ गोत्रावयवशब्दं व्याचष्टे । गोत्रावयवा गोत्राभिमता इति ॥ गोत्रङ्कलम् अभिमतं प्रख्यातं याभिरिति विग्रहः । कुलप्रख्यातिकृत