पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७०३
बालमनोरमा ।

११८९ ॥ वृद्धेत्कोसलाजादाञ्ञ्यङ् । (४-१-१७१)

वृद्धात् । आम्बष्ठयः । सौवीर्यः । इत् । आवन्त्यः । कौन्त्यः । कौ सल्यः । अजादस्यापत्यमाजाद्यः ।

११९० । कुरुनादिभ्यो ण्यः । (४-१-१७२)

कौरव्यः । नैषध्यः । “स नैषधस्यार्थपतेः' इत्यादौ तु शैषिकोऽण् ।

११९१ । साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् । (४-१-१७३)

साल्वो जनपदस्तदवयवा उदुम्बराद्यस्तेभ्यः प्रत्यप्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ।

११९२ । ते तद्राजाः । (४-१-१७४)

अञादयः एतत्संज्ञाः स्युः ।

११९३ । तद्राजस्य बहुषु तेनैवास्त्रियाम् । (२-४-६२)


“व्द्यचः' इति उदाह्रियते इति शेषः । अङ्ग, वङ्ग, सुह्म इत्येते व्द्यचः देशक्षत्त्रियवाचिनः । अङ्गस्यापत्यमिति विग्रहः । तस्य राजन्यप्येवमिति । अङ्गादिदेशस्य राजेति विग्रहः । वृद्धेत्कोसलाजादाञ्यङ् ॥ जनपदक्षत्रियोभयवाचकादृद्धसंज्ञकात् इदन्तात् कोसलात् अजादाव्ह्चापत्ये ञ्तङित्यर्थः । वृद्धादिति । उदाह्रियते इत्यर्थः । आम्बष्ठयः । सौवीर्य इति ॥ आम्बष्ठसौवीरशब्दौ जनपदक्षत्रियोभयवाचकौ । इदिति । इदन्तोदाहरण सूचनमिदम् । आवन्त्य इति । अवन्तिशब्दो देशे राजनि च । कौसल्य इति ॥ कोसलशब्दो देशे राजनि च । अजादस्यापत्यमिति । राजवाचकत्वे विग्रहोऽयम् । देशवाचकत्वे तु अजादानां राजेति विग्रहः । कुरुनादिभ्यो ण्यः । कुरुशब्दात् नकारा दिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये राजनि च ण्यः स्यादित्यर्थः । कौरव्य इति ॥ कुरोरपत्यङ्कुरूणां राजेति वा विग्रहः । नैषध्य इति । निषधशब्दो देशे राजानि च । शैषिक इति । तस्येदमित्यनेनेति शेषः । साल्वावयव । उदुम्बरादय इति । “उदुम्बरास्तिलखला मद्रकारा युगन्धाराः । भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः ॥” इति प्रसिद्धिः । 'द्व्यञ् मगध' इति भाष्ये तु बुध आजमीड अजक्रन्दा अपि गृहीताः । ते तद्राजाः ॥ ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अञादयः परामृश्यन्ते । तदाह । अञ्जादय इति । तद्राजस्य ॥ 'ण्यक्षत्रियार्ष' इत्यतो लुगिल्यनुवर्तते । तेनेत्यनन्तरं कृते बहुत्वे