पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६९९
बालमनोरमा ।

११७४ । फाण्टाहृतिमिताभ्यां णफिञौ । (४-१-१५०)

सौवीरेषु | 'नेह यथासङ्यख्म्' अल्पाच्तरस्य परनिपातालिङ्गात् इति वृत्तिकार भाष्ये तु “यथासङ्ख-यमेव' इति स्थितम् । फाण्टाहृतः-फाण्टा हृतायनिः| मैमतः - मैमतायनिः |

११७५ । कुर्वादिभ्यो ण्यः । (४-१-१५१)

अपत्ये । कौरव्या ब्राह्मणः। वावदूक्याः । सम्राजः क्षत्रिये' (ग सू ७५) । साम्राज्यः-साम्राजोऽन्य

११७६ । सेनान्तलक्षणकारिभ्यश्च । (४-१-१५२)

एभ्यो ण्यः | एति संज्ञायाम्--' (सू १०२३) इति सस्य षः । हारेि षेण्यः । लाक्षण्यः । कारिः शिल्पी, तस्मात् तान्तुवाय्य: । कौम्भकार्यः। नापित्य

११७७ उदीचामिञ् । (४-१-१५३)


'तस्यापत्यम्' इत्यण । ‘ण्यक्षत्रिय' इति तस्य लुगिति भावः । फाण्टाहृति ॥ सौवीरे- विति ॥ शेषपूरणमिदम् । सौवीरगोत्रादित्यर्थः । फाण्टाहृतस्य गोत्रापत्यं फाण्टाहृतिः, अत इञ् । तस्यापत्यं युवेति विग्रहः । मैमत इति ॥ मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीरगोत्रादिति न सम्बद्ध्यते । व्याख्यानाद्गोत्रत्वाभावाच्चेति भावः । कुर्वादि- भ्यो ण्यः ॥ अपत्ये इति ॥ शेषपूरणमिदम् । सौवीरेष्विति निवृत्तम् । कौरव्याः ब्राह्मणा इति ॥ कुरुर्नाम कश्चिद्ब्राह्मणः । तस्यापत्यानीति विग्रहः । ण्यप्रत्यये ओर्गुणे अवादेशः, आदिवृद्धिः । यस्तु 'कुरुनादिभ्यो ण्यः' इति ण्यो वक्ष्यते, तस्य तद्राजत्वात् बहुषु लुकि कुरवः, क्षत्रियाः इति भवति । एतत्सूचनार्थमेव बहुवचनं, ब्राह्मणा इति विशेष्यञ्चो दाहृतम् । वावदूक्याः इति । वावदूकस्यापत्यानीति विग्रहः । सम्राजः क्षत्रिये इति ॥ कुर्वादिगणसूत्रम् । अपत्ये इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् । साम्राजोऽन्य इति ॥ सम्राजः शूद्रादौ उत्पन्न इत्यर्थः । सेनान्त ॥ एभ्य इति ॥ सेनान्तलक्षणकारिभ्य इत्यर्थः । अकुर्वादित्वाद्वचनम् । हारिषेण्य इति ॥ हरिषेणो नाम कश्चित् । 'एति संज्ञायाम्' इति षत्वम् । तस्यासिद्धत्वात्सेनान्तत्वाण्ण्यः । लाक्षण्य इति ॥ लक्षणमस्या- स्तीति लक्षणः, अर्शआद्यच् , तस्यापत्यमिति विग्रहः । कारिपदं व्याचष्टे । कारिः शिल्पी ति ॥ तस्मादिति ॥ कारिविशेषवाचिनो ण्ये सतीत्यर्थः । तान्तुवाय्य इति ॥ तन्तु- वायस्यापत्यमिति विग्रहः। कौम्भकार्य इति ॥ कुम्भकारस्यापत्यमिति विग्रहः । नापित्य इति ॥ नापितस्यापत्यमिति विग्रहः । उदीचामिञ् ॥ सेनान्तलक्षणकारिभ्यः इञ्