पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६९५
बालमनोरमा ।

११५७ । न मपूर्वोऽपत्येऽवर्मणः । (६-४-१७०)

मपूर्वोऽन् प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । “मपूर्वः' किम् । सौत्वनः । ' अपत्ये' किम् । चर्मणा परिवृतश्चार्मणो रथः ।'अवर्मणः' किम् । चक्रवर्मणोऽपत्यं चाक्रवर्मणः । “वा हितनाम्न इति वाच्यम्' (वा ४२१५) । हितनाम्रोऽपत्यं हैतनामः-हैतनामनः ।

११५८ । ब्राह्मो जातैौ । (६-४-१७१)

योगविभागोऽत्र कर्तव्यः । 'ब्राह्मः' इति निपात्यतेऽनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्ये जातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्रह्मणोऽपत्यं ब्राह्मणः ।'अपत्ये' किम् । ब्राह्मी ओषाधिः ।

११५९ । औक्षमनपत्ये । (६-४-१७३)

अणि टिलोपो निपात्यते । औक्षम् पद्म् । “ अनपत्ये' किम् । उक्ष्णोऽपत्यमौक्ष्णः |


पर्युदासादप्राप्तिः । न मपूर्वोऽपत्येऽवर्मणः ॥ भाद्रसाम इति ॥ भद्रसाम्नोऽपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान्न प्रकृतिभावः । सौत्वन इति ॥ सुत्वनोऽपत्य मिति विग्रहः । मपूर्वत्वाभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः’ इत्यणि टिलोपः । अण: आपत्यत्वाभावात्प्रकृतिभावः । वा हितनाम्न इति । “न मपूर्वः' इति प्रति षेध इति शेषः । ब्राह्मोऽजातौ ॥ ब्रह्मन्शब्दादपत्ये अणि “न मपूर्वोऽपत्ये' इति प्रकृति भावनिषेधो जातावेवेत्यर्थः फलति । तथा सति ब्रह्मणोऽपत्यं ब्राह्मण इति जातिविशेषे न सिध्द्येत् । “न मपूर्वः' इति प्रकृतिभावनिषेधे सति “नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात् । किञ्च ब्रह्मा देवता अस्य ब्राह्मं हविरिति न सिद्येत् । न मपूर्व इति प्रकृतिभावनिषेधस्य जाताविवति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपासम्भवात् । अत आह । योगविभाग इति । ब्राह्मः इत्येकं सूत्रम् । तत्र 'इनण्यनपत्ये' इत्यतः अनपत्येऽणीत्यनुवर्तते । तदाह । ब्राह्म इति । निपात्यते अनपत्येऽणीति । तथाच ब्रह्मन्शब्दादनपत्येऽणि अनिति प्रकृतिभावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति । ब्राह्मं हविरिति । ब्रह्म देवता अस्येति विग्रहः । “सास्य देवता' इत्यण् । ततो जाताविति ॥ ततः ब्राह्म इति सूत्रात्पृथगेव जाताविति सूत्रङ्कर्तव्यमित्यर्थः । इह ‘न मपूर्वोऽपत्येऽवर्मणः’ इति सूत्रादपत्ये इति नेति चानु वर्तते । ‘प्रकृत्यैकाच्’ इत्यतः प्रकृत्येति चव । तदाह। अपत्ये जाताविति । ब्राह्मण इति ॥ ब्रह्मणः सकाशात्सजातीयायाम्भार्यायामुत्पन्न इत्यर्थः । यागावभागस्त्वयम्भाष्ये स्पष्टः । अक्षम्॥ शेषपूरणेन सूत्रं व्याचष्टे । आणि टिलोपो निपात्यते इति ॥ ‘अन्’ इति प्रकृतिभावापवाद इति भावः । औक्षमिति । अपत्येऽणि टिलोपाभावे अछोप इति भावः । ननु प्रकृतिभावादल्लोपो