पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९०
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११३४ । चटकाया ऐरक् । (४-१-१२८)

चटकादिति वाच्यम्' (वा २६२४) । लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः । * स्त्रियामपत्ये लुग्वक्तव्य (वा २६२५) । तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ।

११३५ । गोधाया टूक् । (४-१-१२९)

गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ।

११३६ ।। आरगुदीचाम् । (४-१-१३०)

गौधारः । रका सिद्धे आकारोचारणमन्यतो विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ।

११३७ । क्षुद्राभ्यो वा । (४-१-१३१)

अङ्गहीनाः शीलहीनाश्च क्षुद्राः ताभ्यो वा ढ्रक् । पक्षे ढक् । काणेरः काणेयः । दासेर:-दासेयः ।

११३८ । पितृष्वसुश्छण । (४-१-१३२)

अणोऽपवादः । पैतृष्वस्रीयः ।


कल्याण्यादित्वात् ढाकि इनङि उभयपदादिवृद्धिरिति भावः । एतत्प्रसङ्गादेव इदं सूत्रमत्रोपन्यस्तम् । 'महते सौभगाय' इत्यत्र तु उद्रात्रादित्वाद्भावे अञ् । उत्तरपदादिवृध्द्यभावश्छान्दसः । सिन्धव इति ॥ अश्वा इत्यर्थः । चटकाया ऐरक् ॥ चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः । ननु स्रीलिङ्गनिर्देशात् पुल्लिङ्गान्नस्यात् इत्यत आह । चटकादिति ॥ सूत्रे वटकाया इत्यपनीय चवटकादिति वाच्यमित्यर्थः । तर्हि स्त्रीलिङ्गान्न स्यादत आह । लिङ्गेति ॥ स्रिया अपीति ॥ स्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति ॥ चटकस्य चटकायाश्चेत्यर्थः । ननु चटकेति कथं, जातित्वात् डीष्प्रसङ्गादित्यत आह । अजादित्वादिति । गोधाया ढक् । गौधेर इति ॥ गोधाया अपत्यमिति विग्रहः । ढ़कि ढकारस्य एयादेशे “लोपो व्योः' इति यलोपः, कित्वादादिवृद्धिरिति भावः । आरगुदीचाम् ॥ गोधाया आरग्वा स्यादित्यर्थः । अन्यत इति ॥ आकारान्तादन्यत् अदन्तं, तस्मादपि.कचिद्विधानार्थमित्यर्थः । जाडार इति ॥ रग्विधौ आकारो न श्रूयेतेति भावः । पण्डो नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना । क्षुद्राभ्यो वा ॥ अङ्गहीना इति ॥ चक्षुरादिकतिपयावयवविकला इत्यर्थः । शीलहीना इति ॥ सद्वृत्तहीनाः इत्यर्थः । यथेष्टपुरुषसञ्चारिण्य इति यावत् । “ अनियतपुंस्का अङ्गहीना वा क्षुद्राः' इति भाष्यम् । पितृ ष्वसुश्छण् ॥ पैतृष्वस्रीय इति ॥ पितृष्वसुरपत्यमिति विग्रहः । छस्य ईयादेशे