पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६८९
बालमनोरमा ।

ढप्रत्ययान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यम्, प्रावाहणेयिः-प्रवाहणेयि: । बाह्यतद्वितानिमित्ता वृद्धिर्ढा श्रयेण विकल्पेन बाधितुं न शक्यते इति सूत्रारम्भः ।

११३१ । कल्याण्यादीनामिनङ् च । (४-१-१२६)

एषामिनङादेशः स्यात्, ढक्च । काल्याणिनेयः । बान्धकिनेयः ।

११३२ । कुलटाया वा । (४-१-१२७)

इनङ्मात्रं विकल्प्यते । ढक्तु नित्यः पूर्वेणैव । कौलटिनेयः-कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थ कुलान्यटति तस्याः अत्र क्षुद्राभ्यो वा' (सू ११३७) इति पक्षे ढ़क् । कौलटेरः ।

११३३ । ह्यञ्जगसिन्ध्वन्ते पूर्वपदस्य च । (७-३-१९)

हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिञिति णिति किति च । सु हृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धव सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ।


पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते । तच्छब्देन ढप्रत्ययः परामृश्यते । तदाह । ढप्रत्यया न्तस्येति। प्रावाहणेयिः-प्रवाहणेयिरिति ॥ शुभ्रादिढगन्तादिञ् । ननु पूर्वसूत्रेणैव सिद्ध त्वादिदं व्यर्थमित्यत आह । बाह्यति ॥ ढक्प्रत्ययान्तात् बहिर्भूतो य इञ् तन्निमित्ता. तद्धितेष्वचा मादेः' इति निल्या आदिवृद्धिः । ढाश्रयेणेति ॥ ढप्रत्यये परे विहितेनेति यावत् । तथाविधेन वृद्धिविकल्पेन पूर्वसूत्रविहितेन बाधितुन्न शक्यते । भिन्ननिमित्तकत्वादित्यर्थः । पूर्वसूत्रं हि केवलढप्र त्ययान्ते ढप्रत्ययम्परनिमित्तत्वेनाश्रित्य प्रवृत्तं, ढन्निमित्तामादिवृद्धिम्बाधते इति युक्तं, नात्विञ् प्रत्ययनिमित्तामपि नित्यामादिवृद्धिम्, अतस्तस्या अपि बाधनार्थमिदं सूत्रमित्यर्थः । इदं वृद्धिविधिद्वयमपि “शुभ्रादिभ्यश्च' इत्यत्रैव वक्तुं युक्तम् । कल्याण्यादीनामिनङ् च ॥ इनडि डकार इत् । काल्याणिनेय इति ॥ कल्याण्या अपल्यामिति विग्रहः । बान्धकि नेय इति ॥ बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठ्यन्ते । तेभ्यो ढक् सिद्ध एव । इनङेव तु विधीयते । कुलटाया वा ॥ इनङ्मात्रमिति ॥ व्याख्यानादिति भावः । पूर्वेणैवेति ॥ ‘स्त्रीभ्यो ढक्’ इत्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति कुलटा । शकन्ध्वादित्वात्पररूपम् । अत्रेति ॥ ‘कुलटाया वा' इति सूत्रे इत्यर्थः । पक्षे ढगिति ॥ ड्रगपि कदाचिद्रवतीत्यर्थः । कौलटेर इति ॥ कुलटाया कि ढकारस्य एयादेशे “लोपो व्यो इति यकारलोप इति भावः । हृद्भग ॥ हृदाद्यन्ते इति । हृत्, भग, सिन्धु, एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते । तदाह । पूर्वोत्तरपद्योरिति ॥ सौहार्द इति ॥ आणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः । सौभागिनेय इति ॥ 87