पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

व्यचः स्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवाद । दात्तेयः । पार्थ इत्यत्र तु 'तस्येदम्' (सू १५००) इत्यण् ।

११२५ । इतश्चानिञः । (४-१-१२२)

इकारान्ताद्व्द्यचोऽपत्ये ढक्स्यात् । न त्विञन्तात् । दौलेयः । नैधेयः ।

११२६ । शुभ्रादिभ्यश्च । (४-१-१२३)

ढक्स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ।

११२७ । विकर्णकुषीतकात्काश्यपे । (४-१-१२४)

अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्यो वैकर्णिः । कौषीतकिः ।

११२८ । भ्रुवो बुक्च । (४-१-१२५)

चाड्ढक् । भ्रौवेयः ।

११२९ । प्रवाहणस्य ढे । (७-३-२८)

प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वपदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ।

११३० । तत्प्रत्ययस्य च । (७-३-२९)


आह । तन्नामिकेति ॥ दात्रेय इति ॥ दत्ता नाम काचिन्मानुषी, तस्या अपत्य मिति विग्रहः । ननु पृथाया अपत्यं पार्थ इति कथम् । तन्नामिकाणम्बाधित्वा 'व्द्यचः’ इति ढक्प्रसङ्गादित्यत आह । पार्थ इत्यत्रेति ॥ शिवादित्वादपत्य एवाणित्यन्ये । इतश्चानिञ्जः ॥ अस्त्रीप्रत्ययान्तार्थमिदम् । दुलिः निधिश्च कश्चित् । आत्रेय इति ॥ अत्रिः प्रसिद्धः । परत्वा दयमृष्यणमपि बाधते इति भावः । शुभ्रादिभ्यश्च ॥ ढक् स्यादिति ॥ शेषपूरणम् । इञाद्यप वादः । शुभ्रस्यापत्यमिति । अस्त्रीत्वादप्राप्तौ ढागिति भावः । विकर्णकुषीतकात्का श्यप ॥ अपत्ये ढागिति । शेषपूरणम् । काश्यप एवेति नियमार्थे शुभ्रादिभ्यः पृथक् पाठः । भ्रुवो वुक् च ॥ चाड्ढगिति ॥ भ्रूशब्दादपत्ये ढक् स्यात् प्रकृतेर्तुगागमश्च । वुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । भ्रौवेय इति ॥ भ्रूर्नाम काचित् तस्या अपत्य मिति विग्रहः । ढकि एयादेशे प्रकृतेर्व्रुकि आदिवृद्धिः । वुगभावे तु ऊकारस्य वृद्धौ आवादेशे भ्रावेय इति स्यात् । प्रवाहणस्य ढे ॥ उत्तरपदस्येल्यधिकृतम् । ‘तद्धितेष्वचामादेः’ इत्यतः अचामादे रित्यनुवर्तते । 'मृजेद्धिः’ इत्यतो वृद्धिरिति ‘अर्धात्परिमाणस्य पूर्वस्य तु वा' इत्यतः पूर्वस्य वेति । तदाह । प्रवाहणशब्दस्येति । प्रावाहणेयः-प्रवाहणेय इति ॥ शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलन्तु प्रावाहणेयीभार्य इत्यत्र “वृद्धिनिमित्तस्य च' इति पुवत्वप्रतिषेध एव । तत्प्रत्ययस्य च ॥