पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६८७
बालमनोरमा ।

११२० । विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु । (४-१-११७)

अपत्येऽण्, वैकर्णो वात्स्यः । वैकर्णिरन्यः । शौङ्गो भारद्वाजः । शौङ्गि रन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु 'शुङ्गाः' इत्याबन्तं पठन्ति । तेषां ढक्प्रत्युदाहरणम् । शैौङ्गेयः ।

११२१ । पीलाया वा । (४-१-११८)

तन्नामिकाणं बाधित्वा 'द्व्यचः' (सू ११२४) इति ढकि प्राप्त पक्षे ऽण्विधीयते । पीलाया अपत्यं पैलः-पैलेय

११२२ । ढक्च मण्डूकात् । (४-१-११९)

चाद्ण् । पक्षे इञ् । माण्डूकेयः-माण्डूकः—माण्डूकिः ।

११२३ । स्त्रीभ्यो ढक् । (४-१-१२०)

स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् |वैनतेयः | बाह्वादित्वात्सौमित्रिः । शिवा दित्वात्सापत्र

११२४ । द्व्यचः । (४-१-१२१)


इत्यर्थः । एतच भाष्ये स्पष्टम् । विकर्ण ॥ वत्सादिशब्दैस्तद्वंश्या विवक्षिताः । विकर्ण, शुङ्ग, छगल, एभ्येोऽण् स्यात् । वत्सवंश्ये भरद्वाजवश्ये अत्रिवंश्ये चापत्ये इत्यर्थः । एतेन वत्सादीनाम्मूलपुरुषत्वात् विकर्णादीन्प्रत्यपल्यत्वासम्भव इति निरस्तम् । विकर्णादिभ्यो वात्स्यादिष्वेव ‘ऋष्यणु' इति नियमार्थ सूत्रम् । पीलाया वा ॥ अपत्येऽणिति शेषः । पीला नाम काचिन्मानुषी । तन्नामिकाणमिति ॥ वाग्रहणाभावे तु अनेनाणा नित्यमेव ढको बाधः स्यात् । नच महाविभाषया अणः पाक्षिकत्वात्तदभावे ढक् भवत्येवेति वाच्यम् । महाविभाषया अपवादे निषिद्धे उत्सर्गो न प्रवर्तते इति ज्ञापनात् । अन्यथा शैबः शैबिरित्यादि स्यात् । ढक् च मण्डूकात् ॥ मण्डूको नाम ऋषिः । पक्षे इञिति ॥ पूर्वसूत्राद्वाग्रहणा नुवृत्तरिति भावः । स्त्रीभ्यो ढक् ॥ स्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चातुर्थिका गृह्यन्ते । न त्वन्येऽपि स्त्रीवाचकाः । व्याख्यानादित्याह । स्त्रीप्रत्ययान्तेभ्य इति ॥ विनता नाम गरुडमाता, तस्याः अपत्यामिति विग्रहः । प्रत्ययग्रहणङ्किम् । दरत्कश्चित्क्षत्रियः, तस्यापत्यं स्री दरत् । “द्व्यञ्मगध' इत्यण् । “ अतश्च' इति तस्य लुक् । तस्यापत्यं दारदः । अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वाभावान्न ढक् । ननु सुमित्राया अपत्यं सौमित्रिः सपन्नाया अपत्यं सापन्न इति कथं, ढक्प्रसङ्गादित्यत आह । बाह्वादित्वादित्यादि ॥ सापन्न शब्दे पुंवत्वन्नेति प्रागेवोक्तम् । द्यचः ॥ ननु ‘स्त्रीभ्यो ढक्' इत्येव सिद्धे किमर्थमिदमित्यत