पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

कुरुभ्यः । नाकुलः । साहदवः । इञ एवायमपवाद :, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाढ्ढक् । आत्रेय |

१११८ । मातुरुत्सङ्खयासम्भद्रपूर्वायाः । (४-१-११५)

सङ्खयादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण्प्रत्ययश्च । द्वैमातुरः । षा ण्मातुरः । साम्मातुरः । भाद्रमातुरः । आदेशार्थे वचनम् । प्रत्ययस्तूत्सर्गेण आदेशार्थं सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः । तेन धान्यमातुर्न । * सङ्खया-' इति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ।

१११९ । कन्यायाः कनीन च । (४-१-११६)

ढकोऽपवादोऽण् । तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्ण श्च । अनूढाया एवापत्यमित्यर्थ


इति ॥ अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चित् वृष्णिवंश्यः । तस्यापत्यं शैौरिः कथम् । अण्प्रसङ्गादित्यत आह । शौरिरिति त्विति ॥ बाह्वादित्वादित्यनन्तरम् इञा समाधेयमिति शेषः । कुरुभ्य इति ॥ कुरुवंश्यवाचिभ्यः उदाह्रियते इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । ननु अत्रेरपत्यमित्यर्थे 'इतश्वानिजः' इति ढकि आत्रेय इति कथम् । ऋष्यणा इञ इव ढकोऽपि बाधौचित्यादित्यत आह । इञ एवेति ॥ नतु ढकः इत्यर्थः । मातु रुत्सङ्खयासम्भद्रपूर्वायाः ॥ द्वमातुर इति ॥ द्वयोर्मात्रेोरपत्यमिति विग्रहः । “तद्धितार्थ' इति समासः । अणु ऋकारस्य उकारः, रपरत्वम् । एवं षाण्मातुरः । साम्मातुर इति । समीचीना माता सम्माता, सम्मातुरपत्यं साम्मातुरः । अण्, उत् , रपरत्वम् । भाद्रमातुर इति ॥ भद्रा चासौ माता चेति विग्रहः । अणादि पूर्ववत् । ननु तस्यापत्यम्' इत्येव सिद्धे अण्विधिव्यैर्थ एवेत्यत आह । आदेशार्थ वचनमिति ॥ उदादेशस्य अण्णसन्नियोगेन विद्यर्थमित्यर्थः । ननु धान्यमातुरपत्यं धान्यमातुरः इति स्यादित्यत आह । स्त्रीलिङ्गनिर्देशोऽर्थापेक्ष इति ॥ मातृगतं स्त्रीत्वं शब्दे आरोप्य सङ्खयासम्भद्र पूर्वाया इति निर्दिश्यते । अतः त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति ॥ अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुल्लिङ्गत्वादिति भावः । सौमात्र इति ॥ सुमातुरपत्यमित्यर्थे 'तस्यापल्यम्' इत्यण् । सङ्खयासम्भद्रपूर्वत्वाभावात् नायमण् । उक्त्वमपि तत्सन्नियोगशिष्टत्वान्नेति भावः । ननु द्वैमात्रेयः इति कथम् । सङ्खयापूर्वकतया अणः उत्त्वस्य च दुर्वारत्वादित्यत आह । शुभ्रादित्वादिति ॥ ‘शुभ्रादिभ्यश्च' इति ढकि रूपमित्यर्थः । कन्यायाः कनीन च ॥ कनीनेति लुप्तप्रथमाकम् । ढक इति ॥ ‘स्त्रीभ्यो ढक्क्' इति विहितस्येत्यर्थः । कनीनादेशश्चेति । प्रकृतेरिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रासद्धम् । ननु कन्याया अप्रादुर्भूतयौवन त्वात् पुसंयोगाभावात् कथमपत्यसम्बन्ध इत्यत आह । अन्नृढाया इति ॥ अलब्धविवाहाया