पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६९१
बालमनोरमा ।

११३९ । ढकि लोपः । (४-१-१३३)

पितृष्वसुरन्यस्य लोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः ।

११४० । मातृष्वसुश्च । (४-१-१३४)

पितृष्वसुर्यदुक्तं तद्स्यापि स्यात् । मातृष्वस्रीयः-मातृष्वसेयः ।

११४१ । चतुष्पाद्रद्यो ढञ् । (४-१-१३५)

११४२ । ढे लोपोऽकद्वाः । (६-४-१४७)

कद्रभिन्नस्योवर्णान्तस्य भस्य लोपः स्याड्ढे परे । कामण्डलेयः । कमण्ड लुशब्दश्चतुष्पाज्जातिविशेषे |

११४३ । गृष्टयादिभ्यश्च । (४-१-१३६)

एभ्यो ढञ् स्यात् । अण्ढकोरपवादः । गार्ष्टेयः । मित्रयोरपत्यम्, ऋष्यणि प्राप्ते ढञ् ।


आदिवृद्धिः । सकारादृकारस्य यण् । ढकि लोपः ॥ पितृष्वसुरित्यनुवर्तते । अलोऽन्त्यपरि भाषया अन्त्यस्य लोपः । तदाह । पितृष्वसुरन्त्यस्य लोप इति ॥ ननु पितृष्वसुरपत्ये ढक एव दुर्लभत्वात्कथं तस्मिन् परे लोपविधिरित्यत आह । अत एवेति ॥ शुभ्रादित्वात् ढगि त्यन्ये । पैतृष्वसेय इति ॥ ढकि अन्त्यस्य ऋकारस्य लोपे आदिवृद्धिः । 'मातृपितृभ्यां खसा' इति षत्वम् । मातृष्वसुश्च । चकाराच्छण् ढकि लोपश्चानुकृष्यते । तदाह । पितृष्वसुर्यदुक्तमिति । चतुष्पाद्भयो ढञ् । चतुष्पादः पशवः । तद्विशेषवाविभ्य अपत्ये ढञित्यर्थः । ढे लोपोऽवकद्राः । भस्येत्यधिकृतम् ' ओर्गुणः' इत्यतः ओरिति षष्ठयन्तनानुवृत्तेन विशेष्यते । तदन्तविधिः । तदाह । कद्रभिन्नस्येति । अलोऽन्त्यस्य इत्यन्त्यलोपः ओर्गुणापवादः । कामण्डलेय इति । कमण्डलोरपत्यामिति विग्रहः । ढकि एयादेशे आदिवृद्धौ उकारलेोपः । ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याचेतनस्य कथम पत्ययोगः । तत्राह । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति । अत एव कमण्डलु पदे आदधीत' इति बह्वदृचब्राह्महणं सङ्गच्छते इति भावः । गृष्ट्यादिभ्यश्च । अण्ढको रिति ॥ गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्त्रयु एते गृष्टयादयः । अत्र अन्त्ययोः ऋषित्वादण् प्राप्तः । अन्येभ्यस्तु “इतश्चानिजः' इति ढक् प्राप्त इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गौरेव । ततश्च “चतुष्पाद्भयः' इत्यनेन न प्राप्तिः । केकयमित्त्रयु ॥ 'तद्धिते ष्वचामादेः' इत्यतस्तद्धितग्रहणामित्यनुवर्तते । “ अचो ञ्णिति, किति च' इत्यतः ञ्णितीति, कितीति च । तदाह । एषामिति । आदेशे यकारादकार उच्चारणार्थ । केकयस्या पल्यं स्री कैकेयी । ‘जनपदशब्दात्' इत्यञ् । मैत्त्रेयिकया श्लाघते, मित्त्रयोर्भाव इत्यर्थे 'गोत्र चरणात्' इति वुञ् । प्रलयादागतम्प्रालेयम् । अण् । अत्र सर्वत्र यादेरियादेशः। इत्युदाहरणानि ।