पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११११ । वतण्डाच । (४-१-१०८)

“आङ्गिरसे' इत्येव । वातण्ड्यः । अनाङ्गिरसे तु गर्गादौ शिवादौ च पाठाद्यञणौ । वातण्डय:-वातण्डः ।

१११२ । लुक्स्त्रियाम् । (४-१-१०९)

वतण्डाच' (सू ११११) इति विहितस्य लुक्स्यात्स्त्रियाम् । शार्ङ्ग रवादित्वान्डीन् । वतण्डी । अनाङ्गिरसे तु वातण्ड्यायनी । लोहितादित्वा त्ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ।

१११३ । अश्वादिभ्यः फञ् । (४-१-११०)

गोत्रे । आश्वायनः । 'पुंसि जाते' (ग सू ६९) । पुंसीति तु प्रकृति विशेषणम् । जातस्य गोत्रापत्यं जातायनः । 'पुंसि ' इति किम् । जाताया अपत्यं जातेयः |

१११४ । भर्गात्रैगर्ते । (४-१-१११)

गोत्रे फव् । भार्गायणखैगर्तः । भागिरन्यः ।


अनाङ्गिरसत्वात् यञ्जभावे 'इतश्चानिञः' इति ढक्। बौधिरिति ॥ अत्राप्यनाङ्गिरसत्वात् यञभावे ऋष्यणम्बाधित्वा बाह्वादित्वादिञिति भावः । कपेर्गादौ पाठेऽपि अङ्गिरस एवेति नियमार्थङ्ग हणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी। बोधशब्दातु प्राप्ते विधिः। वत ण्डाञ्च ॥ वतण्डस्य गर्गादौ शिवादौ च पाठात् यञणोः प्राप्तयोराङ्गिरसे यञेवेति नियमार्थ मिदम् । लुक् स्त्रियाम् ॥ वतण्डाचेति विहितस्येति ॥ यञ इति शेषः । वतण्डीति ॥ वतण्डस्य गोत्रापत्यं स्री आङ्गीरसीति विग्रहः । यञौ लुकि आदिवृद्धिनिवृत्तौ ङीनिति भावः । वातण्ड्यायनीति ॥ यञि आदिवृद्धौ लाहितादिलक्षणः ष्फः षित्वात् ङीषिति भावः । वतण्डाच' इति विहितस्येत्यस्य प्रयोजनमाह । आणि तु वातण्डीति ॥ शिवादित्वादणि गोत्रत्वेन जातित्वाज्जातिलक्षणे ङीषि तस्याणो वतण्डाद्विहितत्वेऽपि “वतण्डाञ्च' इति विहितत्वा भावान्न भावः । ननु वतण्डादणि तस्य 'अणिजेोरनार्षयोः' इति वक्ष्यमाणः ष्यङ् लुठागात स्यादित्यत आह । ऋषित्वादिति । अश्वादिभ्यः ॥. गोत्रे इति ॥ शेषपूरणमिदम् । आङ्गिरसे इति निवृत्तम् । आश्वायन इति ॥ अश्वस्य गोत्रापल्यमिति विग्रहः । इअपवादः फञ् । पुंसि जाते इति ॥ गणसूत्रम् । प्रकृतिविशेषपामिति ॥ पुंसि विद्यमानो यो जातशब्दः तस्माद्रोत्रे फञित्यर्थः । जातेय इति ॥ 'स्त्रीभ्यो ढक्' । भगत्त्रैगर्ते ॥ इदमपि गणसूत्रम्। त्रिगर्त नाम भर्गस्य पुत्रः । तस्यापत्य त्रैगर्तः । ऋष्यण् । तस्मिन्गोत्रे भर्गात् फञ् ।