पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

११०५ । द्रोणपर्वतजीवन्ताद्न्यतरस्याम् । (४-१-१०३)

एभ्यो गोत्रे फग्वा । द्रौणायणः-द्रौणिः । पार्वतायनः-पार्वतिः । जैव न्तायनः-जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।

११०६ । अनृष्यानन्तर्ये बिदादिभ्योऽञ् । (४-१-१०४)

एभ्योऽञ् गोत्रे, ये त्वत्रानृषयः पुत्त्रादयस्तेभ्य आनन्तर्ये । सूत्रे स्वार्थे ष्यञ् । बिद्स्य गोत्रापत्यं बैदः । अनन्तरो बैदिः । बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्य पौत्त्रः । दौहित्रः ।

११०७ । गर्गादिभ्यो यञ् । (४-१-१०५)

' गोत्रे ' इत्येव । गार्ग्य: । वात्स्य: ।

११०८ । यञ्ञोश्च । (२-४-६४)


नडादिफगन्तोऽयम् । द्रोणपर्वत। अनादिरिति। अश्वत्थान्नः पिता यो महाभारते कल्पादौ प्रसिद्धः तदपेक्षया अन्य एवायं अनादिर्द्रोण इत्यर्थः । अश्वत्थाम्नीति ॥ द्रोणाचार्यस्यान न्तरापत्ये अश्वत्थान्नि द्रौणायन इति प्रयोग इत्यर्थः । तदिदं “बाह्वादिभ्यश्च' इति सूत्रे भाष्ये स्पष्टम् । अनृष्यानन्तर्ये ॥ अनृषीति लुप्तपञ्चमीकम् । बिदादिभ्योऽञ् इति द्विरावर्तते । तथाच 'अमृष्यानन्तर्ये बिदादिभ्योऽञ्’ इति कृत्स्रमेक वाक्यम् । बिदादिभ्योऽञ् इति वाक्यान्तरम् । तत्र द्वितीयं वाक्यं व्याचष्टे । एभ्योऽञ् गोत्रे इति ॥ गोत्रे विवक्षिते बिदादिभ्यः अञ् स्यादित्यर्थः । अथ प्रथम वाक्यं कृत्नसूत्रं व्याचष्टे । ये त्विति ॥ अनृषिः भ्यो बिदादिभ्यः अनन्तरापत्ये अञ् स्यादित्यक्षरार्थः । बिदादौ हि ऋषयः अनृषयश्च पठिताः । तत्र ये अनृषयः तेभ्योऽनन्तरापत्य अञिति फलितमिति भावः । ननु आनन्तर्ये इति श्रवणा दनन्तर इति कथमित्यत आह । सूत्रे स्वार्थे ष्यञिति ॥ अनन्तरशब्दादिति शेषः । चतुर्वर्णादित्वादिति भावः । बिद्रस्य गोत्रापत्यं बैद इति ॥ बिदस्य ऋषित्वात्ततो गोत्र एवाञिति भावः । ऋष्यणोऽपवादः । स्वरे विशेषः । ननु अनन्तरापत्ये अञभावे इञपवादः ऋष्यणेवोचित इति कथमनन्तरो बैदिरित्यत आह । बाह्वादेरिति ॥ बिदादिगणस्थादनृषेः रनन्तरापत्ये अञदाहरति । पौत्त्रः । दौहित्र इति ॥ पुत्रस्यानन्तरापत्यमिति दुहितुरनन्त रापत्यमिति च विग्रहः । यथायथमणिञोरपवादः अञ् । गर्गादिभ्यो यञ् ॥ गार्ग्यः । वा त्स्य इति ॥ गर्गस्य गोत्रापत्यमिति वत्सस्य गोत्रापत्यमिति च विग्रहः । रामो जामदग्न्यः पाराशर्यो व्यासः इत्यादैौ तु अनन्तरापत्ये गोत्रत्वारोपाद्यञित्याहुः । यञञोश्च । द्वितीय चतुर्थपादे इदं सूत्रम् । नत्विदञ्चातुरर्थिकमपत्याधिकारस्थम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजस्येति वर्जमनुवर्तते । ण्यक्षत्रिय' इत्यतो लुगिति 'यस्कादिभ्यो गोत्रे' इत्यतो गोत्रे इति च । तदाह । गोत्रे