पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८०
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

चादिञ् । सुधातुरपत्यं सौधातकिः । व्यासवरुडनिषादचाण्डालबि म्बानां चेति वक्तव्यम्' (वा २६११) ।

१०९८ । न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् । (७-३-३)

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः । किं तु ताभ्यां पूर्वो क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिः इत्यादि ।

१०९९ । गोत्रे कुञ्जादिभ्यः च्फञ् । (४-१-९८)

११०० । ब्रातच्फञोरस्त्रियाम् । (५-३-११३)

ब्रातवाचिभ्यश्फञ्न्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जा यन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्य: । स्त्रियां कौञ्जायनी । गोत्रत्वेन जातित्वान्ङीष्। अनन्तररापत्ये कौञ्जिः ।


प्रकृतेरकडादेशश्चेत्यर्थः । अकडो डकार इत्, अकार उच्चारणार्थः । डिचेत्यन्तादेशः । तदाह । सौधाताकेिरिति ॥ व्यासेति । व्यास, वरुड, निषाद, चण्डाल, बिम्ब, एभ्यश्च इञि प्रकृतेरकडादेश इत्यर्थः । न य्वाभ्याम् ॥ थ् च वश्च य्वाविति विग्रहः । वकारादकार उच्चार णार्थः । तदाह । यकारवत्काराभ्यामिति ॥ परस्येत्यध्याहारलभ्यम् । न वृद्धिरिति ॥ मृजेर्वृध्दिरित्यस्तदनुवृत्तेरिति भावः । तुशब्दो विशेषप्रदर्शनार्थः इत्याह । किन्त्विति । ताभ्याति ॥ यकारवकाराभ्यामित्यर्थः । पूर्वाविति ॥ पूर्वावयवावित्यर्थः । तेन आगमत्वं लभ्यते । तदाह । ऐचवावागमाविति ॥ ऐच् प्रत्याहारः । यथासङ्खयं यकारात्पूर्व ऐकार वकारात्पूर्व औकारः । वैयासकिरिति ॥ वेदान्व्यस्यति विविधमस्यति शाखाभेदेन विभ जतीति वेदव्यासः, कर्मण्यण् | नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः प्रकृतेरडादेशः । अत्र यकारः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदि वृद्धिः प्राप्ता न भवति । किन्तु यकारात्पूर्वः ऐकार आगमः । वैयासकिरिति रूपम् । स्वश्वस्या पत्यं सौवश्विरित्यत्र वकारात्परस्य न वृद्धिः, ततः पूर्व औकारः । नच ऐचोर्वृध्यपवादत्वादेव वृध्द्यभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यम् । यत्र य्वाभ्याम्परस्य प्रसक्ताया वृद्धेः निषेधः तत्रैव ऐजागमाविति विषयनिर्देशार्थत्वात् । तेन दाध्यश्चिरित्यादौ न वृद्धिनिषेधोऽयं येन नाप्राप्ति न्यायेन आदिवृद्धेरेव । तेन द्वे अशीतिभृतो द्यशीतिक इत्यत्र 'सङ्ख्यायाः संवत्सरसङ्खयस्य च' इत्युत्तरपदवृद्धिर्भवत्येव । वरुडादयो जातिविशेषाः । वारुडकिः, नैषादकिः, चाण्डालकिः, बैम्बकिः । गोत्रे कुञ्ज ॥ स्पष्टम् । इञोऽपवादः । च्फाञि चञावितौ । व्रातच्फञोः ॥ व्रातश्च च्फञ्च इति द्वन्द्वाद्यत्ययेन पञ्चम्यर्थे षष्ठी । तदाह । व्रातवाचिभ्य इतिस्वार्थे ञ्यः स्यादिति ॥ “पूगाञ्ञ्यो ग्रामणीपूर्वात्' इत्यतः ञ्य इत्यनुवर्तते । स च स्वार्थिकः । “ञ्यादयः प्राग्वुनः’ इति स्वार्थिकेषु परिगणनादिति भावः । कौञ्जायन्य इति ॥ कुञ्चस्य गोत्रापत्य मिति विग्रहः । च्फञि चञावितौ आयन्नादेशः, आदिवृद्धिः, ततो ञ्यः ञकार इत् “यस्येति च इत्यकारलोपः । तद्राजत्वादिति ॥ ‘ज्यादयस्तद्राजाः' इति वचनादिति भावः। लुग्वक्ष्यते