पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
६७९
बालमनोरमा ।

१०९५ । अत इञ् । (४-१-९५)

अद्न्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठयन्तादिञ्स्यादपत्येऽर्थे । दाक्षिः ।

१०९६ । बाह्वादिभ्यश्च । (४-१-९६)

बाहविः । औडुलोमिः । आकृतिगणोऽयम् ।

१०९७ । सुधातुरकड् च । (४-१-९७)


चतुर्थतृतीयवाचिगोत्रप्रत्ययान्तादिति । तत्र विध्यर्थमेवेदं स्यात्, नतु नियमार्थमिति वाच्यम् । पुत्रपौत्रादिसाधारणोऽपत्यशब्द इत्येव भाष्ये सिद्धान्तितत्वादिति भावः । स्त्रियान्तु न युवसंज्ञेति ॥ इह अस्रियामिति योगो विभज्यते । यूनीत्यनुवर्तते । उभयमपि प्रथमया विपरिणम्यते तथाच स्त्री उक्तयुवसंज्ञका नेति फलितमिति भावः | नच स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते । एवं सत्येकवाक्यत्वलाभादिति वाच्यम् । पञ्चमादिषु युवतिषु प्रत्ययमालाप्रसङ्गात् । नच “एको गोत्रे' इति नियमात्तन्निवृत्तिः सम्भवतीति वाच्यम् । युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच सत्यपि योगविभागे स्त्रियान्न युवप्रत्यय इति व्याख्यायतामिति वाच्यम् । गोत्रप्रत्ययेन युवत्यभिधानानापत्ते रित्यलम् । गर्गस्येति । गर्गस्य पञ्चमादौ यूनि गार्ग्यशब्दात् गोत्रे यञन्तात्फकि गार्ग्यायण इति रूपमित्यर्थः । स्त्रियो युवसंज्ञानिषेधस्य प्रयोजनं दर्शयति । स्त्रिया मिति । पञ्चमादियुवतीनां युवसंज्ञाविरहेण गोत्रत्वात् “एको गोत्रे' इति नियमा द्गार्गीत्येव भवति, नतु गार्ग्यायणीति रूपमित्यर्थः । स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थाश्रयणे तु युवसंज्ञया गोत्रसज्ञाया बाधात् 'एको गोत्रे' इत्यस्याप्रवृत्तेः प्रत्ययमाला स्यादिति भावः । अत इञ् । प्रातिपदिकादित्यधिकृतमता विशेष्यते, तदन्तविधिः । तदाह । अदन्तं यत्प्रातिपदिकमिति । “तस्यापत्यम्' इयनुवृत्तं “समर्थानां प्रथमाद्वा' इति च । ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धम् । सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् सुबन्तादिति लभ्यते । सुप्चेहोपस्थितत्वात् षष्ठेघव विवक्षिता । तथाच षष्ठयन्तात्प्रातिपदि कादिति लभ्यते । यद्यपि प्रातिपदिकन्न षष्ठयन्तम् । प्रत्ययग्रहणपरिभाषया प्रकृतिप्रत्ययसमु दायस्यैव लाभात् । तथापि प्रातिपदिकप्रकृतिकषष्ठयन्तादित्यर्थो विवक्षितः । तदाह । तत्प्रकृतिकात्षष्ठयन्तादिति । दाक्षिरिति । दक्षस्यापत्यमिति विग्रहः । इञ्, आदि वृद्धिः, 'यस्येति च' इत्यकारलोपः । “प्रदीयतान्दाशरथाय मैथिली' इति त्वार्षमिति ‘तस्या पत्यम्' इत्यत्र निरूपितम् । प्रातिपदिकग्रहणाननुवृत्तौ तु अदन्तात्षष्ठयन्तादिति लभ्येत । तथाच दक्षयोपरत्यं दाक्षिरिति न सिद्येदिति भावः । बाह्वादिभ्यश्च । अपत्ये इञिति शेषः। बाहविरिति ॥ बाहुर्नाम कश्चिदृषिः, अथ ऋषय इत्यधिकृत्य “बाहविः गार्ग्यगौतम” इत्याश्वलायनसूत्रे दर्शनात् । बाहोरपत्यमिति विग्रहः । इजि ओर्गुणः । औडुलोमिरितिस्थूलाक्षरैः युक्तः भागः ॥ उडुलोस्रोऽपत्यमिति विग्रहः । इञि 'नस्तद्धिते' इति टिलोपः । आदिवृद्धिः, अदन्तत्वाभावा दप्राप्तिः । सुधातुरकङ्च ॥ चादिञिति ॥ सुधातृशब्दात्षष्ठयन्तादपत्येऽर्थे इञ्प्रत्ययः ।