पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽप्यण्णन्तादिञपि स्यात्। ततश्चतुर्थे फगिति फगिञोः परम्परायां शततमे गोत्रेऽष्टनवतेरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यम् ।

१०९४ । गोत्राद्यून्यस्त्रियाम् । (४-१-९४)

यून्यपत्ये गोत्रप्रत्ययान्तादेवापत्यप्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ।


ज्येष्ठो यस्येति विग्रहः। जीवति तु ज्येष्ठ चतुर्थस्य ‘भ्रातरि च ज्यायसि’ इति युवसंज्ञथा गोत्रत्व म्बाध्येतेति भावः । मृतवंश्ये इति । मृतः वंश्यो यस्येति विग्रहः । वश्ये 'जीवति तु वंश्ये युवा इति युवसज्ञया गात्रत्वम्बाध्येतेति भाव |औपगवे फगिति ||'यञिञोश्च' इत्यनेनेति शेषः । एकोनेति । एकोनशतात्प्रकृतिभ्यः एकोनशतम्प्रत्यया अनिष्टाः स्युरित्यर्थः । अथापत्यशब्दः पुत्तूपौत्तादिसाधारण इति पक्षे अनिष्टम्प्रपञ्चयति । पिता महादीनामपीति । मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपक्षस्य निराकरणात् “अपत्यं पौत्त्रप्रभृति इति सूत्रस्वरसाञ्च बोद्यम् । इष्टे सिद्धेऽपीति ॥ तृतीयादीनामप्यपत्यत्वेन तत्र “तस्या पत्यम्’ इत्यणो निर्बाधत्वादिति भावः । तत इति । इञन्तादित्यर्थः । अष्टनवतेरिति ॥ प्रकृतिभ्यः इति शेषः । अनिष्टप्रत्ययाः स्युरिति । अष्टनवतिरिति शेषः । नियमार्थ मिति । यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथमपक्षे । तथाऽपि गर्गात्तृती यादिषु विवक्षितेषु गोत्रविहितगर्गादियञा गाग्र्यायणशब्दश्येष्टस्य सिद्धावपि गर्गादिञि ततः फिञित्येवम्प्रत्ययपरम्पराप्यनिष्टा प्राप्तोतीति नियमार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः । एवमुत्तरसूत्रऽप्यूह्यामिति || तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते । गोत्रायून्यस्त्रियाम् । गर्गस्य गोत्रं गार्ग्यः, गर्गस्य तृतीयः 'गर्गादिभ्यः' इति गोत्रे यञ् । गार्ग्यस्य तृतीयः स गर्गस्य पञ्चमो युवापत्यं, तस्मिन्बुबोधयिषिते गार्ग्यशब्दात् गोत्रप्रत्ययान्तात् “यञञोश्च' इति फकि गार्ग्यायण इति रूपमिष्यते । तथा षष्ठादिष्वपि युवापत्येषु गार्ग्यायण इत्येवेष्यते । तदिदमपत्यशब्दःपुत्रपौत्रादिसाधारणपक्षे यद्यपि सुलभमेव । गर्गात्तृतीयङ्गार्ग्यम्प्रति पञ्चमादीना मप्यपत्यत्वात् । तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथाच गर्गस्य अनन्तरापत्ये इञि गार्गिः । तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि गार्गायण इत्यपि स्यात् । तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाभावात् यञभावे इञि गार्गिः। तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि गार्गायण इति स्यात् । गोत्रप्रत्य यान्तादेव गार्ग्यशब्दात् गर्गस्य पञ्चमाद्यपत्ये यूनि फकि गार्ग्यायण इत्येवेष्यते । तदर्थङ्गोत्र प्रत्ययान्तादेव यूनि प्रत्यय इति नियमः क्रियते गोत्रायूनीति । तदाह । यून्यपत्ये गोत्र प्रत्ययान्तादेवेति ॥ नतु मूलप्रकृतेस्तदनन्तरापत्यात् 'यूनश्च' इति शेषः । नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात् । नतु