पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
६७७
बालमनोरमा ।

गोत्रे खैकोनसङ्ख-यानां प्रत्ययानां परम्परा ।
यद्वा स्वद्व-यूनसङ्खयेभ्योऽनिष्टोत्पत्तिः प्रसज्यते ।
अपत्यं पितुरेव स्यात्तत: प्राचामपीति च
मतभेदेन तद्वान्यै सूत्रमेतत्तथोत्तरम् ।


पितुरेवापत्यमिति पक्षे ह्यपगोस्तृतीये वाच्ये औपगवादिञ्स्यात् । चतुर्थे त्व जीवज्ज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे


भवति । नतु इञादि । यदा त्वपत्यशब्दः पुत्त्रपौत्त्रादिसाधारणः तदा यद्यपि उपगोरनन्तरा पत्ये पुत्र इव पौत्त्रादिष्वपि विवक्षितेषु ‘तस्यापत्यम्’ इत्यणि औपगव इतीष्ट सिद्यति । तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्तरापत्ये उपगोस्तृतीये विवक्षिते द्वितीयस्मादेकः प्रत्ययः अनिष्टः इति पर्यवस्यति |एवमुपगोश्चतुर्थे विवक्षिते उपगोरणा इष्टे उपगोरणि औपगवः, तस्मादिञि औपगविः तस्मात्फकि औपगवायनः, इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत| तत्रापि उपगोर्मूलप्रकृतेरणिष्ट एव| इञ्फकौ तु प्रत्ययावनिष्टौ । तथाच उपगो श्रतुर्थे तु विवक्षिते द्वितीयस्मादेक: अनिष्टप्रत्ययः तृतीयस्मादन्य इत्येवं प्रकृतिद्वया दनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति । एवम्पञ्चमे प्रकृतित्रयात् त्रयः प्रत्ययाः । षष्ठे प्रकृति चतुष्टयात् चत्वारः प्रत्ययाः इत्येवम्मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनिष्टप्रत्ययाः स्युः । तत्र “एको गोत्रे' इति नियमविधिः । गोत्रे एक एव प्रत्ययः स्यादिति । तत्रापि प्रथमातिक्रमे कारणाभावान्मूलप्रकृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति । सूत्रे एकशब्दः प्रथमपर्यायः “एके मुख्यान्यकेवलाः इत्यमरः । मुखे भवो मुख्यः प्रथमः |" एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा” इति कोशान्तरम् । तथाच प्रथमः मूलप्रकृतेरिव गोत्रे विवक्षिते स्वयोग्यप्रत्ययलम्भ इति व्याख्यान्तरम् । तदेतत्सर्वं श्लोकद्वयेन सङ्गृण्हाति । गोत्रे स्वैको नेति । अत्र प्रथमश्लोकान्ते श्रुतं प्रसज्यते इत्येतत्पदं पूर्वार्धे परम्परेत्यनन्तरमपि सम्बध्यते| तत्र स्वं गोत्रं मूलपुरुषोपग्वपेक्षया यत्सङ्खयाकं तदपेक्षया एकोनसङ्खयाकानां अनिष्टप्रत्ययानां पर म्परैवोक्तरीत्या प्रसज्येत । नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिद्यतीत्यर्थः । यद्वेति ॥ स्वं गोत्रं तत्मूलपुरुषोपग्वपेक्षया यत्सङ्खयाकं तदपेक्षया द्वयूनसङख्याकप्रकृतिभ्यः तावतां प्रत्यया। नामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्य इत्यर्थः । ननु कथमिदम्पक्षद्वयमित्यत आह । अपत्यमि त्यादि मतभेदेनेत्यन्तम् । पुत्र एवापत्यमिति पक्षे प्रथमः पक्ष उन्मिषति । पुत्रपैौत्रादि साधारणोऽपत्यशब्द इति पक्षे तु द्वितीयः पक्ष उन्मिषतीति भावः| तद्धान्यै इति ॥ तस्य उक्तप्रकाराभ्याम् अनिष्टोत्पादनस्य हानिः निवृत्तिः तदर्थमिदमित्यर्थः । तथोत्तरमिति । गोत्राद्यून्यस्त्रियाम्' इत्युत्तरसूत्रमपि तथा योज्यमित्यर्थः| तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टम्प्रपञ्चयति | पतुरेवेत्यादिना ॥ औपगवादिञ् स्यादिति । 'अत इञ् इत्यनेनेति शेषः । औपगवादेव इञ् स्यात् नतु उपगोरणित्यर्थः । तृतीयस्य उपगुम्प्रत्यपत्य त्वाभावादिति भावः| चतुर्थे त्वित्यतः पूर्वमुपगेोरिति शेषः । अजीवज्ज्येष्ठे इति ॥ जीवन्