पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१०९३ । एको गोत्रे । (४-१-९३)

गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोगर्योत्रापत्यमौपगवः । गार्ग्यः । नाडायनः|


तत्रभवान् गाग्र्यायण इति । तत्रभवानिति पूज्यवाची , युवसंज्ञकानामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा । ताङ्गोत्रप्रभृतिस्तृतीयोऽपि मन्यते । अत्र युवसंज्ञाविधि सामर्थ्यात्स्वार्थे युवप्रत्ययो बोद्यः । गार्ग्यो जाल्म इति । यो वृद्धाननादृत्य स्वातन्त्र्य म्भजते तद्विषयमिदम् । एको गोत्रे । सङ्ख्याविशेषोपादाने तदितरसङ्खयाव्यवच्छेदस्य स्वभावसिद्धत्वात् एक एवेति गम्यते । अपत्याधिकारात्प्रत्ययाधिकाराच्च अपल्यप्रत्यय इति तद्विशेष्यलाभः | तदाह | गोत्रे एक एवापत्यप्रत्ययः स्यादिति || औपगव इति || उपगोगोत्रापत्ये “तस्यापत्यम्’ इत्यण् । गार्ग्य इति ॥ गर्गस्य गोत्रापत्ये गर्गादिभ्य इति यञ् । नाडायन इति । नडस्य गोत्रापत्ये 'नडादिभ्यः' इति फक् । गोत्रे एक एव प्रत्ययः स्यादित्येवोक्तौ तु अनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिञ्प्रत्ययो न निवार्येत । नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वार्येत । अतोऽपत्यग्रहणमित्याहुः । नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाप्रसक्तेर्व्यर्थमिदं सूत्रमिति चेन्मैवम् । अपत्यशब्दो हि पुत्त्र एव रूढ इत्येकः पक्षः । पुत्त्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम् । तदेतत् “अपत्यं पौत्तूप्रभृति' इति सूत्रव्याख्यावसरे प्रपञ्चितश्चास्माभिः । तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुम्प्रत्यपत्यत्वाभावात् तस्यापत्यम्’ इत्यण् न सम्भवति । ततश्च उपगुपुत्त्रे वाच्ये 'तस्यापत्यम्’ इत्यणा औपगव शब्दे व्युत्पादिते सति औपगवस्यापत्ये वस्तुतः उपगोः तृतीये गोत्रे विवक्षिते औपगवशब्दात् अत इञ्' इति इञि औपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात् । एवञ्च उपगो स्तृतीये विवक्षिते उपगोरण् औपगवादिञिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात् । तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमिञ्प्रत्ययमण्प्रत्ययो घटयतीति सोऽप्य निष्ट एव । तथाच तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादित्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते । सच वस्तुतः अणेव, न त्विञ्, अदन्तत्वाभावात् । विहिते च तस्मिन् औपगवादिञपि निवर्तते। गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः । अतः प्रत्ययद्वयमाला निवर्तते । एवमुपगोश्चतुर्थे विवक्षिते तस्य उपगुन्तत्पुत्रञ्च प्रत्यपत्यत्वा भावात् पौत्तूम्प्रत्येवापत्यत्वादौपगविशब्दात् “यञिञोश्च' इति फकि प्रकृतित्रयादनिष्टा औप गवायन इति प्रत्ययत्रयमाला स्यात् । उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिञि औपगवायनिः इत्येवं प्रकृतिचतुष्टयात् प्रत्ययचतुष्टयमाला स्यात् । षष्ठे तु औपगवायनिशब्दा त्फकि औपगवायनायन इत्येवं प्रकृतिपञ्चकात् पञ्च प्रत्ययाः स्युः । तदेवं फगिञोः परम्परायां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः अत्र तृतीयप्रभृति कस्मिश्धिद्गोत्रे विवक्षिते उपगुम्प्रत्यनपत्येऽपि तस्मिन् “एको गोत्रे' इत्यणेव