पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
६७३
बालमनोरमा ।

योगविभागस्तु । भानोरपत्यं भानवः । “कृतसन्धेः' किम् । सौत्थितिः । अकृतव्यूहपरिभाषया साबुत्थितिर्मा भूत् । समर्थपरिभाषया नेह । वस्त्रमुपगो रपत्यं चैत्रस्य । “ प्रथमात्' किम् । अपत्यवाचकात्षष्ठयर्थे मा भूत् । वा ग्रहणाद्वाक्यमपि । “दैवयाज्ञि–’ (सू १२०१) इति सूत्रादन्यतरस्याङ्कहणा नुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान्डीष् । औपगवी । आश्वपतः । दैत्यः | औत्सः | स्त्रैणः | पौस्नः |


कृते तदुत्तरमेव इञ्प्रत्यय उचितः । परादन्तरङ्गस्य बलवत्वात् । ततश्च सन्धेः प्राक् तद्धितोत्पत्ते रप्रसक्तेः कृतसन्धेरिति व्यर्थमेवेत्यत आह । अकृतेति ॥ अन्तरङ्गपरिभाषाया अप्यपवादभूतया अकृतव्यूहपरिभाषया सन्धेः प्रागेव प्रत्ययः स्यात् । ततश्च आदिवृष्टद्यपेक्षया अन्तरङ्गोऽपि सवर्ण दीर्घः अकृतव्यूहपरिभाषया आदिवृद्धेः प्राक् न प्रवर्तते । एवञ्च सवर्णदीर्घत्प्रागेवादिवृद्धौ आवादेशे सावुत्थितिरिति स्यादित्यर्थः । नच इञि सति कृते सवर्णदीर्घे उकारस्य जायमानया वृद्ध्या सवर्णदीर्घनिमित्तस्य कस्य चिद्विनाशाभावादकृतव्यूहपरिभाषायाः कथमिह प्रवृत्तिरिति वाच्यम् । यदि सवर्णदीर्घो न स्यात्तदा सु उत्थित इत्यवस्थायां सकारादुकारस्य वृध्द्या औकारे सति सवर्णदीर्घनिमित्तस्य अको विनाशः स्यादिति सम्भावनया अकृतव्यूहपरिभाषायाः प्रवृत्तेरिति कथञ्चिद्योज्यम् । वस्तुतस्तु अकृतव्यूहपरिभाषा नास्त्येव । भाष्ये काप्यव्यवहृतत्वात् । प्रत्युत भाष्यविरुद्धत्वाच्च । 'विप्रतिषेधे परङ्कार्यम्' इति सूत्रभाष्ये हि परादन्तरङ्गं बलीयः इत्युक्ता सौत्थितिरित्यत्र परामप्यादिवृद्धिम्बाधित्वा अन्तरङ्ग एकादेश इत्युक्तम् । पदस्य विभज्यान्वा ख्याने सु उत्थित इति स्थिते परत्वाद्वृद्धिः प्राप्ता । अन्तरङ्गत्वादेकादेश इति कैयट: । अकृत व्यूहपरिभाषासत्वे तदसङ्गतिः स्यष्टैव । सेदुष इत्यादौ अकृतव्यूहपरिभाषाफलस्यान्यथासिद्धिस्तु तत्र तत्र प्रपञ्चितैवेत्यास्तान्तावत् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः । वस्त्रमुपगोरपत्यञ्चैत्रस्येति । अत्र उपगुशब्दादपत्ये अण् न भवति । उपगोर्वस्त्रेणैवान्वयात् । यद्यपि तत्सम्बन्ध्यपत्ये प्रत्ययावधानात् इह च अपत्यस्य तच्छब्दवाच्पयोगुसम्बन्धाभावादेव अत्र प्रत्ययस्य न प्रसक्तिः । तथापि ऋद्धस्य औपगवमित्यादिवारणाय सामथ्र्यमेकार्थीभावलक्षण माश्रयणीयामिति भावः । अपत्यवाचकादिति । उपगुरपत्यमस्य देवदत्तस्येत्यर्थे औपगवो देवदत्तः इति माभूदित्यर्थेः । प्रथमादित्युक्तौ तु “तस्यापत्यम्’ इति सूत्रे षष्ठयन्तस्यैव प्रथमोच्चारितत्वादुपगुरिति प्रथमान्तात् न भवतीत्यर्थः । वाग्रहणाद्वाक्यमपीति ॥ वाग्रहणाभावे हि तद्धितस्य नित्यत्वादुपगोरपत्यमिति वाक्यं स्यादिति भावः । ननु उपग्वपत्य मिति कथं षष्ठीसमासः । तद्वितानां समासापवादत्वात् । नच तद्धितानाम्पाक्षिकत्वात्तदभावपक्षे षष्ठीसमासो निबोध इति वाच्यम् । “ अपवादेन मुक्ते उत्सर्गो न प्रवर्तते ' इति “पारमध्ये षष्ठया वा' इति वाग्रहणेन ज्ञापितत्वादित्यत आह । दैवयज्ञीति सूत्रादिति ॥ जाति त्वादिति ॥ अपत्यार्थकाणन्तस्य औपगवशब्दस्य “गोत्रञ्च चरणैः सह” इति जातित्वात् डीषित्यर्थः । आश्वपत इति ॥ अश्वपतेरपत्यमिति विग्रहः । पत्युत्तरपदलक्षणं ण्यं बाधित्वा 85