पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

तस्येदमित्यपत्येऽपि बाधनार्थे कृतं भवेत् । उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥' (वा २५८१-२५८४)


पुष्करसद्शब्दस्य अनुशतिकादौ पाठात् तत्र यद्यादिवृद्धिरन्त्योपधावृद्धी न बाधेत तदा आदिवृद्या उपधावृद्या च पौष्करसादेः सिद्धत्वात् अनुशतिकादौ पुष्करसच्छब्दपाठो ऽनर्थकः स्यात् । अतस्तक्रकौण्डिन्यन्यायात् “सत्यपि सम्भवे बाधनं भवति, इति विज्ञायते’ इति भाष्ये स्पष्टम् । तस्येदमित्यपत्येऽपीत्यादि । श्लोकवार्तिकमिदम्। तत्र प्रथमचरणस्यायमर्थः। तस्येदमिति विहितः अण् अपत्येऽर्थेऽपि भवति, इदमर्थे तस्याप्यन्तर्भावात् । अतस्तस्यापत्य मित्यण्विधानं व्यर्थमित्याक्षेपः । नच 'अत इञ्' इत्याद्युत्तरसूत्रार्थं 'तस्यापत्यम्' इत्यावश्य कमिति वाच्यम् । एवं हि सति “तस्यापत्यमत इञ्' इत्येकमेव सूत्रमस्तु । तथा च तस्यापत्यम्’ इति पृथक्सूत्रकरणं व्यर्थमित्याक्षेपः पर्यवस्यति । अत्र समाधत्ते। बाधनार्थे कृतम्भवेदिति । “तस्येदम्’ इत्यणम्बाधित्वा “वृद्धाच्छः ’ इति छः अपत्ये प्राप्तः, तद्वाधनार्थे तस्यापत्यम्’ इति पृथक्सूत्रङ्कृतमित्यर्थः । ननु ‘वृद्धाच्छः’ इति सूत्रं शेषाधिकारस्थम्, अपल्या दिचतुरर्थ्यन्तेभ्योऽन्यः शेषः । तथाच अपत्यार्थस्य शेषाधिकारस्थत्वाभावात् तस्मात्तत्र छप्रत्ययस्याप्रसक्तेस्तद्वाधनार्थत्व ' तस्यापत्यम्' इत्यस्य कथमित्यत आह । उत्सर्गः शेष एवासाविति । उत्सृज्यते अदन्तबाह्यादिप्रकृतिभ्यो वियुज्यते इत्युत्सर्गः । कर्मणि घञ् । अदन्तबाह्वादिभिन्नप्रकृतिसम्बद्धः अपत्यार्थोऽसौ शेषो भवत्येवेत्यर्थः । आक्षेप्तुर्हि 'तस्यापत्य मत इञ्' इत्येकसूत्रमभिमतम् । विनियुक्तादन्यः शेषः, अदन्तबाह्यादिप्रकृतिसंयुक्तापत्यार्थ एव विनियुक्तः । न तु तद्रिन्नप्रकृतिसंयुक्तापत्यार्थोऽपि । ततश्च तस्य शेषत्वात्तस्मिन्नपयत्ये छस्य प्रसक्त त्वात् तद्वाधनार्थे 'तस्यापत्यम्’ इति पृथक्सूत्रम् । सति चास्मिन् पृथक्सूत्रे अदन्तबाह्यादि रूपप्रकृतिसामान्यसयुक्तापत्यार्थस्योपयुक्तत्वादशेषत्वाच्छस्य न प्राप्तिरित्यप्राप्तिसम्पादनद्वारा छबाधकत्वं 'तस्यापत्यम्’ इति पृथक्सूत्रस्य सिद्धम् । अयमप्राप्तबाध इत्युच्यते । नन्वेवमपि उपगोरपत्यमित्यत्र उपगोरवृद्धत्वात् छस्य नैव प्रसक्तिरिति किम्पृथक्सूत्रेणेत्यत आह । वृद्धान्यस्य प्रयोजनमिति । भानोरपत्यम्भानवः इत्यादौ यानि भान्वादिप्रातिपदि कानि वृद्धानि, यानि उपग्वादिप्रातिपदिकानि नामधेयत्वादृद्धानि, तेभ्यः छप्रत्ययबाधनार्थे तस्यापत्यम्' इति पृथक्सूत्रमित्यर्थः । ननु “तस्येदम्' इत्यणि इदन्त्वेन बोधः । “तस्या पत्यम्’ इत्यणि तु अपत्यत्वेन बोध इति शाब्दबोधे वैलक्षण्यसत्त्वात्, “तस्येदमित्यपत्येऽपि इत्याक्षेप एवायमनुपपन्न इति चेन्न । एतद्वार्तिकभाष्यप्रामाण्येन “तस्येदम्' इति इदंशब्देन अपत्यस्य इदन्त्वेन ग्रहणाभावविज्ञानात् । “प्रदीयतान्दाशरथाय मैथिली ” इति त्वार्षत्वान्न दुष्यतीत्यास्तां तावत् । कृतसन्धेः किमिति ॥ 'समर्थानाम्प्रथमाद्वा' इत्यधिकारसूत्रस्थ समर्थग्रहणलब्धं कृतसन्धेरित्येतत् किमर्थमिति प्रश्रः । सौत्थितिरिति ॥ सु शोभनः उत्थितः सूत्थितः । प्रादिसमासे सवर्णदीर्घः । सूत्थितस्यापत्य सौत्थितिः, अत इञ्, सुब्लुक्, आदिवृद्धिः यस्येति च' इत्यकारलोपः । कृतसन्धेरित्यभावेतु सु उत्थित इत्यस्यामेव दशायां सवर्णदीर्घ त्परत्वादादिवृद्धौ कृतायामावादेशे सावुत्थितिरिति स्यादिति भावः । नन्वन्तरङ्गत्वात्सवर्णदीर्घ