शिवाद्यण् । तस्यापत्यं युवा यास्कायनि । “ अणो द्व्यचः’ (सू ११८०) इति फिञ् । तस्य छात्त्राः यास्कीयाः-यास्कायनीया : ।
१०८८ । तस्यापत्यम् । (४-१-९२)
षष्ट्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यमौपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ।
इति इञपवादः शिवाद्यणित्यर्थः । तस्येति । यस्कस्यापत्यं युवेत्यर्थे “अणो द्व्यचः' इति फिञि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः । तस्य छात्रा इति ॥ यास्कायनेः छात्राः इत्यर्थे ‘तस्येदम्’ इत्यनुवृत्तौ ‘वृद्धाच्छः' इति छः । तस्य ईयादेशः । यास्कायनीया इति रूपम् । अत्र छात्रार्थकछप्रत्यये विवक्षिते युवार्थकफिञो लुकि “यस्येति च' इति इकारलोपे यास्कीया इति रूपमित्यर्थः । तस्यापत्यम् ॥ तद्धिता इति, प्रत्ययः, परश्च, इति चाधिकृतम् । तच्छब्दः सर्वनामतया बुद्धिस्थपरामर्शित्वादुपग्वादिसर्वविशेषबोधकः । तस्य उपग्वादेरपत्यमित्यर्थे तद्धिताः प्रत्ययाः परे भवन्तीति लभ्यते । कस्मात्परे प्रत्यया भवन्तीत्याकाङ्क्षायां ‘समर्थानाम्प्रथ माद्वा' इत्यधिकारात् प्रथमोच्चारितात्समर्थात्तच्छब्दलब्धेपग्वादेरिति लभ्यते । प्रातिपदिकादित्य धिकृतम् । “घकालतनेषु कालनाम्रः’ इति तरप्तमप्तनेषु तद्धितेषु परतः सप्तम्या अलु ग्विधानात्सुपस्तद्धितोत्पत्तेर्ज्ञापितत्वात् सुप्शिरस्कात्प्रातिपदिकादिति लभ्यते । सुप् चेह तस्येति प्रथमोचारिते पदे उपस्थितत्वात् षष्ठयेव गृह्यते । ततश्च षष्ठयन्तादिति फलति । सामर्थ्यङ्कृत- सन्धिकार्यत्वमित्युक्तमेव । तदाह । षष्ठयन्तात्कृतसन्धेरिति 'सभर्थः पदविधिः’ इति परिभाषया लब्धमाह। समर्थादिति । विशिष्टैकार्थप्रतिपादकादित्यर्थः सुबन्तात्तद्धितोत्पत्त्या । तद्धितविधीनाम्पदविधित्वादिति भावः । उक्ता इति । 'प्राग्दीव्यतोऽण्’ इत्याद्या औत्सर्गिका इत्यर्थः ।वक्ष्यमाणाश्चेति । “ अत इञ्' इत्याद्या वैशेषिका इत्यर्थः । वा स्युरिति ॥ समर्थानाम्प्रथमाद्वा' इत्यधिकृतत्वादिति भावः । “अपत्यं पौत्रप्रभृति गोत्रम्' इति उत्तरसूत्र व्याख्यावसरे अपत्यशब्दो व्याख्यास्यते । औपगवः इति । उपगोरणि आदिवृद्धिः । ओर्गुणः । अवादेशः । अत्र प्रकृत्यैव उपगोर्लाभात् अपत्यमेव प्रत्ययार्थ इति स्थितिः । ननु उपगु अ इति स्थिते ओर्गुणात्परत्वात् “अचो ञ्णिति' इति वृद्धिः स्यात् । ओर्गुणस्य पशव्य इत्यादौ चरितार्थत्वात् । कृते च गुणे अवादेशे सति * अत उपधायाः' इति वृद्धिर्दुर्निवारा । त्वष्टुरपत्यन्त्वाष्ट्रः, मघवतोऽपत्यं माघवतः, इत्यादौ गुणाप्रसक्त्या अन्त्योपधावृध्द्योर्निर्बाधत्वाच । नच परत्वादादिवृद्धौ अन्त्योपधावृद्धी बाद्येते इति वाच्यम् । विप्रतिषेधे हि परस्य पूर्व बाधकता नचेह विप्रतिषेधोऽस्ति, देशभेदेनोभयसम्भवात् | नाप्यन्त्योपधावृध्द्योरपवादः आदिवृद्धिरिति वक्तुं शक्यम् । सुश्रुतोऽपत्यं सौश्रुतः इत्यादौ अन्त्योपधावृद्योरप्राप्तयो रप्यादिवृद्धेः प्रवृत्तेः । तस्मादादिवृद्धिस्थले अन्त्योपधावृद्धी स्यातामित्यत आह । आदिवृद्धि रिति ॥ “अचो ञ्णिति' इत्यन्त्यवृद्धिम् “ अत उपधायाः' इत्युपधावृद्धिं च आदिवृद्धिर्बाधते इत्यर्थः । पुष्करसदोऽपत्यमित्यर्थे बाह्वादित्वादिञ्, ‘अनुशतिकादीनाञ्च' इत्युभयोः पदयोरादिवृद्धिः।