पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७०
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात् । तच्चेद्गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम् । ' अत इञ्' (सू १०९५) “यञिञोश्च' (सू ११०३) इति फक् । पान्नागरिः पिता पुत्त्रश्च । ' प्राचाम्' किम् । दाक्षिः पिता । दाक्षायणः पुत्रः| [अपत्याधिकार

१०८६ । न तौल्वलिभ्यः । (२-४-६१)

तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुङ्नस्यात् । पूर्वेण प्राप्तः । तुल्वलः । तत इञि फक् । तौल्वलिः पिता । तौल्वलायनः पुत्त्रः ।

१०८७ । फक्फिञोरन्यतरस्याम् । (४-१-९१)

' यूनि' (सू १०८३) इत्येव पूर्वेण नित्ये लुकि प्राप्ते विकल्पार्थं सूत्रम् । कात्यायनस्य छात्त्राः कातीयाः—कात्यायनीया: “ यस्कस्यापत्यं यास्क: ।


य इञ् तदन्ताद्युवप्रत्ययस्य लुगिति ॥ प्राचाम् इति गोत्रादिविशेषणम्, न तु विकल्पार्थम्। व्याख्यानात् । तदाह । तच्चेद्गोत्रं प्राचां भवतीति ॥ प्राग्देशीयमित्यर्थः । पन्नागार स्येति ॥ प्राग्देशे पन्नागारो नाम कश्चित्, तस्य गोत्रापत्यमित्यर्थे “अत इञ्’ इति इञि पान्नागारेरपत्यं युवेत्यर्थे पान्नागारिशब्दात् “यञिञोश्च' इति फक् । तस्यानेन लुक् । एवञ्च पन्नागारस्य गोत्रापत्ये युवापत्ये च पान्नागारिरित्येव रूपमित्यर्थः । प्राचां किमिति ॥ गोत्रविशेषणङ्किमर्थमित्यर्थः । दाक्षिः पिता, दाक्षायणः पुत्त्र इति । दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ् । तस्यापल्यं युवा दाक्षायणः । “यञिञोश्च' इति फक् । तस्य लुड् न भवति । दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगो त्रार्थकादिञः परत्वम् । न तौल्वलिभ्यः ॥ बहुवचनात्तौल्वल्यादीनाङ्ग्रहणमित्याह । तौल्वल्यादिभ्यः परस्येति ॥ पूर्वेणेति ॥ 'इञः प्राचाम्' इत्यनेन प्राप्तो लुगनेन प्रतिषिध्यते इत्यर्थः । तुल्वल इति । तुल्वलो नाम प्राच्यः कश्चित् । तस्य गोत्रापत्यं तौल्वलिः । अत इञ् । तस्यापत्यं युवा तौल्वलायनः । “यञिञोश्च ' इति फक् । तस्य 'इञः प्राचाम्' इति लुङ् नेत्यर्थः । अथ प्रकृतञ्चातुरर्थिकं लुग्विधिमनुसरति । फक्फिञो रन्यतरस्याम् ॥ यूनीत्येवेति । 'यूनि लुक्' इति पूर्वसूत्रमनुवर्तते इत्यर्थः । ‘यूनि लुक्’ इत्युक्तो लुक् फक्फिञोर्वा स्यादित्यर्थः । तदाह । पूर्वेणेति ॥ कात्यायनस्येति ॥ कतस्य गोत्रापत्यङ्कात्यः । गर्गादित्वाद्यञ् । तस्यापत्यं युवा कात्यायनः । “यञिञोश्च' इति फक् । कात्यायनस्य छात्राः इत्यर्थे 'तस्येदम्' इत्यनुवृत्तौ ‘वृद्धाच्छ:’ इति छः । ईयादेशः । अत्र छात्रार्थकछप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य ईय इति स्थिते 'यस्यति च' इत्यकारलोपे ' आपत्यस्य च' इति यलोपे कातीया इति रूपम् । फको लुगभावे तु कात्यायनीया इति रूपमित्यर्थः । यस्कस्येति । यस्कस्य गोत्रापत्यमित्यर्थे 'अत इञ् ’