पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७४
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१०८९ । अपत्यं पौचप्रभृति गोत्रम् । (४-१-१६२)

अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञ स्यात् ।

१०९० । जीवति तु वंश्ये युवा । (४-१-१६३)

वंश्ये पित्त्रादौ जीवति पौत्त्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव, न तु गोत्रसज्ञम्


अश्व।त्यादिभ्यश्च' इत्यणिति भावः । दैत्य इति ॥ दितेरपत्यमिति विग्रहः। 'दित्यदिति' इति ण्यः अणपवादः। औत्स इति । उत्सः कश्चित्, तस्यापत्यमिति विग्रहः । 'उत्सादिभ्योऽञ् इत्यञ् । इजाद्यपवादः। स्वरे विशेषः । त्रैणः। पौंस्न इति । स्त्रिया अपत्यं, पुंसोऽपत्यमिति विग्रहः । ‘स्त्रीपुंसाभ्याम्' इति नञ्स्नौ । अणोऽपवादः । अपत्यम् ॥ अपत्याधि कारात् सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह । अपत्यत्वेन विवक्षितमिति ॥ एवञ्च पौत्त्रत्वेन विवक्षितानां पौत्त्रादीनां न गोत्रसज्ञेति भावः । “सन्ततिर्गेत्रजननकुलान्य भिजनान्वयौ ” इति कोशतः गोत्रशब्दस्य सन्ततिवाचकत्वात् पुत्त्रस्यापि गोत्रत्वे प्राप्ते पैौत्त्रादिग्रहणादिह शात्रे पुत्त्रस्य न गोत्रत्वम् । ननु “ आत्मजस्तनयः सूनुः सुतः पुत्त्रस्त्रि यान्त्वमी । आहुदुहितरं सर्वेऽपत्यन्तोकन्तयोः समे” इत्यादिकोशात् अपत्यशब्दस्य पुत्त्र एव रूढत्वात् कथम् “अपत्यं पौत्त्रप्रभृति' इति सामानाधिकरण्यमिति चेन्मैवम् । अपत्यशब्दो हि नात्मजपर्यायः, किन्तु पुत्तूपौत्तादिसन्ततिपर्यायः । न पतन्ति नरके पितरो येन तदपत्यमिति 'पङ्क्तिविंशति' इति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्त्रादयोऽपि पितामहादीनान्नरका दुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति “एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच महा भारतादौ च जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वात् उपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्त्वाद्रोत्रं स्यादिति वाच्यम् । यस्य यः पौत्रादिः तस्य तद्भोत्रमिति व्याख्यानादित्यलम् । जीवति । वंशः उत्पादकपित्रादिपरम्परा । तत्र भवो वंश्यः । दिगादित्वाद्यत् । तदाह । वंश्ये पित्त्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौतूादीत्यनुवृत्त षष्ठया विपरिणम्यते इति भावः । यदपत्यमिति ॥ “तस्यापत्यम्' इत्यतस्तदनुवृत्तेरिति भावः । तुरवधारणे युवेत्यनन्तरं । द्रष्टव्यः । तदाह । युवसंज्ञमेवेति । तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन् न समावेश इति भावः । युवसंज्ञया सह गोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलङ्कुः कश्चित्, तस्य गोत्रापत्यं शालङ्किः इञ् । पैलादिगणे शालङ्कीति पाठात् प्रकृतेः शालङ्कादेशश्च । शालङ्करपत्यं युवापि शालङ्किरेव । 'यञञोश्च' इति फक् । पैलादिभ्यश्च' इति तस्य लुक् । शालङ्केर्यूनः छात्रा इत्यर्थे ‘इञश्च' इत्यणि शालङ्का इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । 'पीलाया वा' इत्यण् । पैलस्यापत्यं युवापि पैल एव ।'अणो द्व्यचः' इति फिञ् ‘। 'पैलादिभ्यश्च' इति तस्य लुक् । पैलस्य यूनः छात्राः इत्यर्थे वृद्धाच्छः । पैलीया इति रूपम् । युवगोत्रसंज्ञयोः समावेशे तु 'गोत्रेऽलुगचि' इति