पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८२५
बालमनोरमा ।

अध्यर्धखारीकम् । द्विखारीकम् । 'केवलायाश्चेति वक्तव्यम्’ (वा ३०२५) । खारीकम् ।

१६९९ । पणपादमाषशताद्यत् । (५-१-३४)

अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह * पादः पत् (सू ४१४) इति न । “यस्य-' (सू ३११) इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे' (सू९९१) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ।

१७०० । शाणाद्वा । (५-१-३५)

यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम्-अध्यर्धशाणम् ।

१७०१ । द्वित्रिपूर्वादण्च । (५-१-३६)


' शाणात्' इत्येव । चाद्यत् । तेन त्रैरूप्यम् । “ परिमाणान्तस्यासंज्ञा शाणयोः' (सू १६८३) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम्-द्विशाण्यम् द्विशाणम् । इह ठञादयस्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थाः श्वाकाङ्क्षितास्त इदानीमुच्यन्ते । इत्यभिप्रेत्योदाहरति । अध्यर्धखारीकम् द्विखारीकमिति । ‘तदस्य परिमाणम्’ इति ठञि तस्य च लुकि प्राप्ते ईकन् । केवलायाश्चेति । खार्या इति शेषः । पणपाद ॥ अध्यर्ध पूर्वादिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति । अध्यर्धपण्यम् । द्विपण्यमिति ॥ अध्यर्धपणेन क्रीतमित्यर्थः । द्विपाद्यमिति ॥ द्वाभ्यां पादाभ्याश्चतुर्थांशाभ्यां क्रीतमिति विग्रहः । यति “यस्येति चव' इत्यकारलोपः । स्थानिवद्भावादिति ॥ “अचः परस्मिन् ’ इत्यनेनेति भावः । प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात् पादशब्दोऽपि परिमाणविशेषवाची गृह्यते । शाणाद्वा ॥ पक्षे ठञिति॥ आर्हादिति ठग्विधौ परिमाणपर्युदासाठ्ठञिति भावः । तस्य लुगिति ॥ ठञः इति भावः । अत्र अध्यर्ध पूर्वादिति द्विगोरिति चानुवर्तते इत्यभिप्रेत्य अध्यर्धपूर्वादुदाहरति । अध्यर्धशाण्यम् अध्यर्धशाणमिति ॥ यति ठञो लुकि च रूपम् । अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन् विशेषमाह । द्वित्रिपूर्वादण् च ॥ वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् चकारेण समुच्चीयते इत्यर्थः । ततश्च यतोऽभावे ठ़ञपि लभ्यते । तदाह । तेन त्रैरूप्य मिति ॥ अणा यता ठञा चेत्यर्थः । अणि परिमाणान्तस्येत्युत्तरपदवृद्धिमाशङ्कय आह । परिमाणान्तस्येति । ठञादयस्त्रयोदशेति ॥ 'प्राग्वतेः’ इति ठञ्, “ आर्हात् । इति ठक्, “शताच्च' इति ठन्यतौ, “संज्ञायाः’ इति कन्, “विंशतित्रिंशद्भयाम्' इति ड्वुन्, कंसात्' इति टिठन्, ‘शूपत्' इत्यञ्, “शतमान' इत्यण्, “विंशतिकात्खः’ इति खः,