पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२४
[आर्हीय
सिद्धान्तकौमुदीसहिता

१६९४ । विभाषा कार्षापणसहस्राभ्याम् । (५-१-२९)

लुग्वा स्यात् । अध्यर्धकार्षापणम्-अध्यर्धकार्षापणिकम् । द्विकार्षापणम्-- द्विकार्षापणिकम् । औपसङ्ख-यानिकस्य टिठनो लुक् । पक्षे अध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम्-अध्यर्धसाहस्रम् । द्विसहस्रम्-द्विसाहस्रम् ।

१६९५ । द्वित्रिपूर्वान्निष्कात् । (५-१-३०)

लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनिष्कम्–त्रिनैष्किकम् । बहुपूर्वाच्चेति वक्तव्यम्’ (वा ३०२४) । बहुनिष्कम्--बहुनैष्किकम् ।

१६९६ । बिस्ताच्च । (५-१-३१)

द्वित्रिबहुपूर्वाद्विस्तादाहींयस्य लुग्वा स्यात् । द्विबिस्तम्-द्विबैस्तिकम्,

इत्यादि।

१६९७ । विंशतिकात्खः । (५-१-३२)

अध्यर्धपूर्वाद्दिगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ।

१६९८ । खार्या ईकन् । (५-१-३३)


परिमाणमस्येति विग्रहे 'तद्धितार्थ' इति द्विगुः । ‘तदस्य’ इति ठञ् । सङ्खयासंज्ञासूत्रभाष्ये तु ‘अध्यर्धपूर्वात्’ इति पाठो दृश्यते । नच द्वाभ्यां शूर्पाभ्यां, क्रीतं द्विश्शूर्प, तेन क्रीतन्द्विशौर्पिकमिति पूर्वोक्तोदाहरणे ठञो लुक् स्यादिति वाच्यम्। द्विगुनिमित्तस्यार्हीयस्य लुगिति व्याख्यानादित्यलम् विभाषा ॥ लुग्वेति । आर्हीयस्येति शेषः । औपसङ्खयानिकस्येति । 'कार्षापणा ट्टिठन् वक्तव्यः’ इत्युक्तस्येत्यर्थः । अध्यर्धप्रतिकमिति । प्रत्यादेशस्य टिठन्सन्नियोग शिष्टत्वात् प्रत्यादेशपक्षे टिठनो न लुगिति भावः । अध्यर्धसहस्रमिति ॥ ‘शतमान' इति विहितस्याणो लुक् । लुगभावे तु “सङ्खयायाः संवत्सरसङ्खयस्य च' इत्युत्तरपदवृद्धिः । द्वित्रिपूर्वान्निष्कात् ॥ लुग्वा स्यादिति । आहयस्येति शेषः । द्विनैष्किकमिति । ठञो लुक्, समासाट्ठकोऽसम्भवात् । बिस्ताञ्च ॥ आर्हीयस्य लुग्वेति शेषः । द्विबिस्तम् द्विबैस्तिकमिति । द्वाभ्यां क्रीतमिति विग्रहः । ठञः पाक्षिको लुक् । इत्यादीति । बहुबिस्तम्-बहुवैस्तिकमित्युदाहार्यम् । ‘बहुपूर्वाञ्च' इति वार्तिकस्य अत्राप्यनुवृत्तेः भाष्ये उक्तत्वात् । विंशतिकात्खः ॥ अध्यर्धपूर्वाद्विगोरित्येवेति । पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्यासम्भवात् द्विगोरित्यस्य प्रयोजनाभावादननुवृत्तावपि इह तदनुवर्तत इति भावः । अध्यर्धविंशतिकीन मिति । अध्यर्धविंशत्या क्रीतमध्यर्धविंशतिकम् । “विंशतित्रिंशद्भयाम्' इति योगविभा गात् कन् । अध्यर्धविंशतिकेन क्रीतमिति विग्रहः । द्विविंशतिवकीनमिति । द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः । खार्या ईकन् ॥ अध्यर्धपूर्वादिति द्विगोरिति चानुवर्तते