पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८२३
बालमनोरमा ।

१६९० । कंसाट्टिठन् । (५-१-२५)

टो डीबर्थः । इकार उच्चारणार्थः । कंसिकः-कसिकी । “ अर्धाश्चेति वक्तव्यम्’ (वा ३०१८) । अर्धिकः-अर्धिकी । “कार्षापणाट्टिठन्वक्तव्यः प्रतिरादेशश्च वा' (वा ३०१९) । कार्षापणिकः-कार्षापणिकी । प्रतिकः

१६९१ । शूर्पदञन्यतरस्याम् । (५-१-२६)

शौर्पम्-शौर्पिकम् ।

१६९२ । शतमानविंशतिकसहस्रवसनादण् । (५-१-२७)

एभ्योऽण्स्यात् । ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ।

१६९३ । अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् । (५-१-२८)

अध्यर्धपूर्वाद्विगोश्च परस्यार्हीयस्य लुक्स्यात् । अध्यर्धकंसम् । द्विकंसम् संज्ञायां तु पाञ्चकलापिकम् ।


विंशक इति ॥ विंशत्या क्रीत इत्यर्थः । ड्वुन् अकादेशः । “तिविंशेर्डिंति' इति तिशब्दस्य लोपः। त्रिंशिक इति ॥ ड्वुन् अकादेशः ‘टेः इति टिलोपः। आद्यसूत्रं परिशेषात् संज्ञायामित्यभि प्रेत्य आह । संज्ञायां त्विति ॥ कंसात् ॥ इत्यादि स्पष्टम्। शूर्पादञ् ॥ आर्हीयेष्वर्थेष्विति शेषः । शूर्पशब्दस्य परिमाणवाचित्वात् ठञि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पक्षे ठञ् । शतमान ॥ शातमानमिति । अत्र ठञ् प्राप्तः । वैंशतिकमिति ॥ विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् । 'विंशतित्रिशद्भयाम्' इति योगविभागात् कन् । विंशतिकेन क्रीतमिति विग्रहः । तत्र परिमाणविशेषस्य संज्ञा चट्टञ् प्राप्तः । अन्यस्य संज्ञा चेट्ठक् प्राप्तः । साहस्रमिति ॥ सहखेत्रण क्रीतमिति विग्रहः । ‘सङ्खयाया अतिशदन्तायाः’ इति कन् प्राप्तः । वासनमिति ॥ वसनेन क्रीतमिति विग्रहः । अत्र ठक् प्राप्तः । अध्यर्धपूर्व ॥ अध्यर्ध शब्दः पूर्वो यस्य सः अध्यर्धपूर्वः, सच द्विगुश्चेति समाहारद्वन्द्वात्पञ्चमी । सौत्रं पुंस्त्वम् । तदाह । अध्यर्धपूर्वात् द्विगोश्चेति ॥ आर्हीयस्येति । प्रत्यासत्तिलभ्यम् । अध्यर्धकंसमिति ॥ अध्यारूढमर्धम् अध्यर्धम् । ‘प्रादिभ्यो धातुजस्य' इति बहुव्रीहौ पूर्वखण्डे उत्तरपदलोपः । सार्धमित्यर्थः । अध्यर्धन कंसेन क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः । ‘सङ्खयाया अतिशदन्ताया ’ इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति ॥ द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । ठको लुक् । नच अध्यर्धकंसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यम् । किञ्चित्सङ्खयाकार्यङ्कत्व सुजादिकमध्यर्धशब्दस्य नेति ज्ञापनार्थत्वात् । पाञ्चकलापिकमिति ॥ पञ्च कलापा