पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२२
[आर्हीय
सिद्धान्तकौमुदीसहिता

शतेन क्रीतं शतिकम्-शत्यम् । 'अशते' किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्न भिद्यते, तेन ठन्यतौ न । किं तु कनेव । “ असमासे' इत्येव । द्विशतेन क्रीतं द्विशतकम् ।

१६८७ । संख्याया अतिशदन्तायाः कन् । (५-१-२२)

सङ्खयाया कन्स्यादार्हीयेऽर्थे, न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः चात्वारिंशत्क ।

१६८८ । वतोरिड्वा । (५-१-२३)

वत्त्वन्तात्कन इङ्वा स्यात् । तावतिकः-तावत्कः ।

१६८९ । विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् । (५-१-२४)

योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असंज्ञायां ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशत्क


प्रत्ययार्थत्वात् कथमशते इति निषेध इत्यत आह । इहेति ॥ प्रत्ययार्थः सङ्घः प्रकृत्यर्थात् शतात्परिमाणात् न भिद्यते । गुणगुणिनोरभेद एव हि पारमार्थिकः । भेदस्तु काल्पनिक एवति भावः । यत्र तु शतं प्रत्ययार्थः प्रकृत्यर्थाद्भिद्यते तत्र नायं निषेधः । शतेन क्रीतं शत्यं शाटकशतम् । अत्र हि निष्कशतं प्रकृत्यर्थः । शाटकशतन्तु प्रत्ययार्थः । एतत्सर्वे भाष्ये स्पष्टम् । असमास इत्येवेति ॥ चकारस्य तदनुकर्षणार्थत्वात् इति भावः । द्विशतेनेति । द्विगुणशतेनेत्यर्थः । द्विगुसमासे तु द्विशतकशब्दस्य लुगन्ततया अलुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम् । सङ्खयायाः ॥ तिश्च शञ्च तिशतौ, तौ अन्ते यस्याः सा तिशदन्ता न तिशदन्ता अतिशदन्ता, द्वन्द्वगर्भबहुव्रीहिगभों नञ्तत्पुरुषः । साप्ततिक इति । सप्तत्या क्रीत इत्यर्थः । “तेन क्रीतम्' इति ठञ् । चात्वारिंशत्क इति । चत्वारिंशता कीतमित्यर्थः । तेन क्रीतम्' इति ठञष्ठस्य तकारात्परत्वात्कः । वतोरिड़ा । वतोरित्यनेन प्रत्यग्रहणपरि भाषया तदन्तं गृह्यते । कन्निति प्रथमान्तमनुवृत्तम् । “वतोः' इति पञ्चमी “तस्मादित्यु त्तरस्य' इति परिभाषया षष्ठयन्तं प्रकल्पयति । तदाह । वत्त्वन्तादिति । तावतिक इति । तावता क्रीत इत्यर्थः । “यत्तदेतेभ्यः’ इति वतुप् । ‘बहुगणवतु’ इति सङ्खयासंज्ञायां “सङ्खयाया अतिशदन्तायाः’ इति कन्, तस्य इट्, टित्वादाद्यवयवः । विंशतित्रिंश द्भयां इवुन्नसंज्ञायाम् । नन्वेकसूत्रत्वे विशतित्रिंशद्भयां ड्वुनेव स्यात्, कन् तु न स्यात् । अतिशदन्तायाः इति निषेधादित्यत आह । योगेति ॥ *विंशतित्रिंशद्भ्याम् इत्येकं सूत्रम् । 'ड्वुन्नसंज्ञायाम्' इत्यपरमित्यर्थः । आद्य व्याचष्टे । आभ्याङ्कन् स्यादिति ॥ “सङ्खयाया अतिशदन्तायाः’ इत्यतः कन् इत्यनुवर्तत इति भावः । द्वितीय सूत्रे विंशतित्रिंशद्भयाम् इत्यनुवृत्तिमभिप्रेत्य आह । असंज्ञायामिति ॥ आभ्यामिति शेषः ।