पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८२१
बालमनोरमा ।

द्वैपारायणिकः । “ अलुकि' इति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते ‘शूर्पदञ्-' (सू १६९१) मा भूत् । किं तु ठञ् । द्विशौर्पिकम् ।

१६८४ । अर्धात्परिमाणस्य पूर्वस्य तु वा । (७-३-२६)

अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः, पूर्वपदस्य तु वा ञिति णिति किति च । अर्धद्रोणेन क्रीतम् अर्धद्रौणिकम्-आर्धद्रौणिकम् ।

१६८५ । नातः परस्य । (७-३-२७)

अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न, पूर्वपदस्य तु वा ञिपदादौ । अर्ध प्रस्थिकम्-आर्धप्रस्थिकम् । अत:' किम् । आर्धकौडबिकम् । तपरः किम् । अर्धखार्यो भवा अर्धखारी । अर्धग्वारीभार्य इत्यत्र *वृद्धिनिमित्तस्य (सू ८४०) इति पुंवद्भावनिषेधो न स्यात् ।

१६८६ । शताच्च ठन्यतावशते । (५-१-२१)


यदुक्तम्, तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशूर्पमिति ॥ 'तद्धितार्थ' इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः । अतः सङ्खयापूर्वपदात् शूर्पान्तादस्मात् “शूर्पादञन्यतरस्याम्' इति प्राप्तस्य अञष्ठञो वा ‘द्विगोर्लुगनपत्ये' इति ‘अध्द्यर्ध' इति वा लुक् । द्विशूर्पशब्दो लुगन्तः । ततश्च तस्मात् क्रीतेऽर्थे 'शूर्पादञ्' इति न भवति । लुकि सति तदन्तग्रहणाभावादित्यर्थः । द्विशौर्पिकमिति ॥ ‘तेन क्रीतम्’ इति ठत्रि

  • परिमाणान्तस्यासंज्ञाशाणयोः' इत्युत्तरपदवृद्धिः । अस्य ठञो लुक तु न भवति । तस्य द्विगु

निमित्तत्वाभावात् । अर्धात्परिमाणस्य ॥ 'परिमाणान्तस्य' इत्यस्मात् उत्तरमिदं सूत्रम् । अर्धद्रौणिकम्-आर्धद्रौणिकमिति ॥ द्रोणशब्दस्य निष्कादित्वेऽपि असमासग्रहणान्न ठक् । किन्तु ठञेव । नातः परस्य ॥ परिमाणावकारस्येति । परिमाणवाचकावयवस्य अकार स्येत्यर्थः । पूर्वपदस्य तु वेति ॥ पूर्वपदस्यादेरवस्तु वृद्धिर्वेत्यर्थः । आर्धकौडबिकमिति ॥ अर्धकुडबेन क्रीतमित्यर्थः । “तेन क्रीतम्' इति ठञ् । अत्र कुडबशब्दस्य परिमाणविशेष वाचिनः आदेरचः अकारत्वाभावान्न वृद्धिनिषेधः । किन्तु * अर्धात्परिमाणस्य' इत्युत्तरपदवृद्धि रिति भावः । तपरः किमिति ॥ दीर्घस्याकारस्य वृद्धिनिषेधे फलाभावाद्रस्वस्येति सिद्धमिति प्रश्नः । अर्धखार्यां भवा अर्धखारीति ॥ लक्षणयेति शेषः । निषेधो न स्यादिति ॥ पूर्वपदस्य वृध्यभावपक्षे वृद्धिं प्रति फलोपहितनिमित्तत्वाभावादिति भावः । पूर्वपदस्य वृद्धिपक्षे तु वृद्धिं प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव । उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्वम् । परिमाणान्तस्येत्यारभ्य एतदन्तं साप्तमिकम् । अथ प्रकृतं पाञ्चमिकम् । शताञ्च ठन् यतावशते ॥ आहयेष्वर्थेषु शताद्वन्यतौ स्तः, नतु शतेऽर्थे इत्यर्थः । उत्तरसूत्रप्राप्त कनोऽपवादः । शतकः सङ्घ इति ॥ उत्तरसूत्रेण कन्निति भावः । नन्विह सङ्घस्यैव