पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२०
[आर्हीय
सिद्धान्तकौमुदीसहिता

१६८२ । असमासे निष्कादिभ्यः । (५-१-२०)

“आर्हात्' इत्येतत् “तेन क्रीतम्' (सू १७०२) इति यावत्सप्तदश सूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादाहीयेष्वर्थेषु नैष्किकम् । समासे तु ठञ्

१६८३ । परिमाणान्तस्यासंज्ञाशाणयोः । (७-३-१७)

उत्तरपदवृद्धिः स्यात् ञिदादौ । परमनैष्किकः । ८ असंज्ञा' इति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । “तदस्य परिमाणम्' (सू १७२३) इति ठञ् । असमासग्रहणं ज्ञापकं भवति *इतः प्राक्तदन्तविधिः इति । तेन सुगव्यम्-यवापूष्यमित्यादि । इत ऊर्ध्वं तु “सङ्खयापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते। तच्चालुकी-(वा ३०१८) । पारायणिकः।


येन काष्ठादिनिर्मितेन आयतविस्तृतोच्छूितेन पात्रविशेषेण व्रीह्यादि परिच्छिद्यते पात्रगताया मविस्तारोच्छूायैः तत्परिमाणं प्रस्थादि । आयामः दैर्ध्यं येन परिच्छिद्यते तत्प्रमाणम् । अरत्निप्रादेशादि । सङ्खया तु उक्तत्रितयापेक्षया बाह्या भिन्ना एकत्वद्वित्वादीत्यर्थः । असमासे ॥ इति यावदिति ॥ तेन क्रीतम्’ इत्येतत्पर्यन्तमित्यर्थः । ठगिति ॥ पूर्वसूत्रात्तदनुवृत्तेरिति भावः। आर्हीयेष्विति ॥ ‘तदर्हति' इत्येतत्पर्यन्तमनुक्रान्तेषु “तेन क्रीतम्' इत्याद्यर्थेष्वित्यर्थः । नैष्किकमिति ॥ निष्केण क्रीतमित्यर्थः । यथायोगं क्रीताद्यर्थान्वयः । समासे तु ठञेवेति ॥ परमनिष्कादिशब्दादित्यर्थः । परिमाणान्तस्यासंज्ञाशाणयोः ॥ आदि वृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तह्याचष्टे । उत्तरपदवृद्धिः स्या दिति । उत्तरपदस्य आदेरचो वृद्धिः स्यादित्यर्थः । ञिदादाविति । ञिति णिति किति चेत्यर्थः । परमनैष्किक इति ॥ परमनिष्केण क्रीत इत्यर्थः । समासत्वाट्टगभावे औत्सर्गिक ष्ठञ् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठको विधानात्तदन्तात् समासाद्वकोऽप्रसक्त्तेरसमास ग्रहणं व्यर्थम् । नन्च पूर्वसूत्रे प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिक विशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम् । 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति’ इति निषेधात् । निष्कादीनाञ्च विशिष्य गृहीतत्वेन ग्रहणवत्वादित्यत आह । असमासग्रहणमिति ॥ सुगव्यमिति ॥ सु शोभना गौः सुगौः “न पूजनात् ' इति निषेधात् “गोरतद्धितलुकि' इति न टच्।उगवादिभ्यः इति गोशब्दान्ताद्यत्। यवापूप्यमिति ॥ ‘विभाषा हविरपूपादिभ्यः' इत्यपूपान्तत्वाद्यत् । नन्वसमासग्रहणात् ज्ञापकात् इत ऊर्ध्वमपि तदन्तविधिः किं न स्यात् । ततश्च परमपारायणं वर्तयतीत्यत्रापि * पारायण तुरायणचान्द्रायणं वर्तयति' इति ठञ् स्यादित्यत आह । इत ऊर्ध्वन्त्विति ॥ वार्तिक मिदम् । नन्वेवमपि द्विशूर्पेण क्रीतमित्यर्थे शूर्पशब्दान्तादपि “शूर्पादञन्यतरस्याम्' इति अञ् स्यादित्यत आह । तञ्चालुकीति ॥ इत ऊर्ध्वं सङ्खयापूर्वपदान्तानां तदन्तप्रहणामिति